अथर्ववेद काण्ड 11

(11,1।1अ) अग्ने जायस्वादितिर् नाथितेयं ब्रह्मौदनं पचति पुत्रकामा|
(11,1।1च्) सप्तऋषयो भूतकृतस् ते त्वा मन्थन्तु प्रजया सहेह ||1||

(11,1।2अ) कृणुत धूमं वृषणः सखायो ‘द्रोघाविता वाचम् अछ|
(11,1।2च्) अयम् अग्निः पृतनाषाट् सुवीरो येन देवा असहन्त दस्यून् ||2||

(11,1।3अ) अग्ने ‘जनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः|
(11,1।3च्) सप्तऋषयो भूतकृतस् ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यछ ||3||

(11,1।4अ) समिद्धो अग्ने समिधा सम् इध्यस्व विद्वान् देवान् यज्ञियां एह वक्षः|
(11,1।4च्) तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकम् अधि रोहयेमम् ||4||

(11,1।5अ) त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम्|
(11,1।5च्) अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ||5||

(11,1।6अ) अग्ने सहस्वान् अभिभूर् अभीद् असि नीचो न्य् उब्ज द्विषतः सपत्नान्|
(11,1।6च्) इयं मात्रा मीयमाना मिता च सजातांस् ते बलिहृतः कृणोतु ||6||

(11,1।7अ) साकं सजातैः पयसा सहैध्य् उद् उब्जैनां महते वीर्याय|
(11,1।7च्) ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ||7||

(11,1।8अ) इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना|
(11,1।8च्) अथ गछेम सुकृतस्य लोकम् ||8||

(11,1।9अ) एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्य् अंशून् यजमानाय साधु|
(11,1।9च्) अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजाम् उद्भरन्त्य् उद् ऊह ||9||

(11,1।10अ) गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञम् अगुः|
(11,1।10च्) त्रयो वरा यतमांस् त्वं वृणीषे तास् ते समृद्धीर् इह राधयामि ||10|| {1}

(11,1।11अ) इयं ते धीतिर् इदम् उ ते जनित्रं गृह्णातु त्वाम् अदितिः शूरपुत्रा|
(11,1।11च्) परा पुनीहि य इमां पृतन्यवो ‘स्यै रयिं सर्ववीरं नि यछ ||11||

(11,1।12अ) उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस् तुषैः|
(11,1।12च्) श्रिया समानान् अति सर्वान्त् स्यामाधस्पदं द्विषतस् पादयामि ||12||

(11,1।13अ) परेहि नारि पुनर् एहि क्षिप्रम् अपां त्वा गोष्ठो अध्य् अरुक्षद् भराय|
(11,1।13च्) तासां गृह्णीताद् यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात् ||13||

(11,1।14अ) एमा अगुर् योषितः शुम्भमाना उत् तिष्ठ नारि तवसं रभस्व|
(11,1।14च्) सुपत्नी पत्या प्रजया प्रजावत्य् आ त्वागन् यज्ञः प्रति कुम्भं गृभाय ||14||

(11,1।15अ) ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः|
(11,1।15च्) अयं यज्ञो गातुविन् नाथवित् प्रजाविद् उग्रः पशुविद् वीरविद् वो अस्तु ||15||

(11,1।16अ) अग्ने चरुर् यज्ञियस् त्वाध्य् अरुक्षच् छुचिस् तपिष्ठस् तपसा तपैनम्|
(11,1।16च्) आर्षेया दैवा अभिसंगत्य भागम् इमं तपिष्ठा ऋतुभिस् तपन्तु ||16||

(11,1।17अ) शुद्धाः पूता योषितो यज्ञिया इमा आपश् चरुम् अव सर्पन्तु शुभ्राः|
(11,1।17च्) अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृताम् एतु लोकम् ||17||

(11,1।18अ) ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस् तण्ढुला यज्ञिया इमे|
(11,1।18च्) अपः प्र विशत प्रति गृह्णातु वश् चरुर् इमं पक्त्वा सुकृताम् एत लोकम् ||18||

(11,1।19अ) उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके|
(11,1।19च्) पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस् ते अस्मि ||19||

(11,1।20अ) सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः|
(11,1।20च्) अमूंस् त आ दधामि प्रजया रेषयैनान् बलिहाराय मृढतान् मह्यम् एव ||20|| {2}

(11,1।21अ) उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्य् एनाम्|
(11,1।21च्) श्रिया समानान् अति सर्वान्त् स्यामाधस्पदं द्विषतस् पादयामि ||21||

(11,1।22अ) अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङ् एनां देवताभिः सहैधि|
(11,1।22च्) मा त्वा प्रापच् छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ||22||

(11,1।23अ) ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिर् अग्रे|
(11,1।23च्) अंसध्रीं शुद्धाम् उप धेहि नारि तत्रौदनं सादय दैवानाम् ||23||

(11,1।24अ) अदितेर् हस्तां स्रुचम् एतां द्वितीयां सप्तऋषयो भूतकृतो याम् अकृण्वन्|
(11,1।24च्) सा गात्राणि विदुष्य् ओदनस्य दर्विर् वेद्याम् अध्य् एनं चिनोतु ||24||

(11,1।25अ) शृतं त्वा हव्यम् उप सीदन्तु दैवा निःसृप्याग्नेः पुनर् एनान् प्र सीद|
(11,1।25च्) सोमेन पूतो जठरे सीद ब्रह्मणाम् आर्षेयास् ते मा रिषन् प्राशितारः ||25||

(11,1।26अ) सोम राजन्त् संज्ञानम् आ वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान्|
(11,1।26च्) ऋषीन् आर्षेयांस् तपसो ‘धि जातान् ब्रह्मौदने सुहवा जोहवीमि ||26||

(11,1।27अ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि|
(11,1।27च्) यत्काम इदम् अभिषिञ्चामि वो ‘हम् इन्द्रो मरुत्वान्त् स ददाद् इदं मे ||27||

(11,1।28अ) इदं मे ज्योतिर् अमृतं हिरण्यं पक्वं क्षेत्रात् कामदुघा म एषा|
(11,1।28च्) इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ||28||

(11,1।29अ) अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकां अप मृढ्डि दूरम्|
(11,1।29च्) एतं शुश्रुम गृहराजस्य भागम् अथो विद्म निरृतेर् भागधेयम् ||29||

(11,1।30अ) श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गम् अधि रोहयैनम्|
(11,1।30च्) येन रोहात् परम् आपद्य यद् वय उत्तमं नाकं परमं व्योम ||30|| {3}

(11,1।31अ) बभ्रेर् अध्वर्यो मुखम् एतद् वि मृढ्ढ्ह्य् आज्याय लोकं कृणुहि प्रविद्वान्|
(11,1।31च्) घृतेन गात्रानु सर्वा वि मृढ्डि कृण्वे पन्थां पितृषु यः स्वर्गः ||31||

(11,1।32अ) बभ्रे रक्षः समदम् आ वपैभ्यो ‘ब्राह्मणा यतमे त्वोपसीदान्|
(11,1।32च्) पुरीषिणः प्रथमानाः पुरस्ताद् आर्षेयास् ते मा रिषन् प्राशितारः ||32||

(11,1।33अ) आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणाम् अप्य् अस्त्य् अत्र|
(11,1।33च्) अग्निर् मे गोप्ता मरुतश् च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ||33||

(11,1।34अ) यज्ञं दुहानं सदम् इत् प्रपीनं पुमांसं धेनुं सदनं रयीणाम्|
(11,1।34च्) प्रजामृतत्वम् उत दीर्घम् आयू रायश् च पोषैर् उप त्वा सदेम ||34||

(11,1।35अ) वृषभो ‘सि स्वर्ग ऋषीन् आर्षेयान् गछ|
(11,1।35च्) सुकृतां लोके सीद तत्र नौ संस्कृतम् ||35||

(11,1।36अ) समाचिनुष्वानुसंप्रयाह्य् अग्ने पथः कल्पय देवयानान्|
(11,1।36च्) एतैः सुकृतैर् अनु गछेम यज्ञं नाके तिष्ठन्तम् अधि सप्तरश्मौ ||36||

(11,1।37अ) येन देवा ज्योतिषा द्याम् उदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम्|
(11,1।37च्) तेन गेष्म सुकृतस्य लोकं स्वर् आरोहन्तो अभि नाकम् उत्तमम् ||37|| {4}

(11,2।1अ) भवाशर्वौ मृढतं माभि यातं भूतपती पशुपती नमो वाम्|
(11,2।1च्) प्रतिहिताम् आयतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ||1||

(11,2।2अ) शुने क्रोष्ट्रे मा शरीराणि कर्तम् अलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः|
(11,2।2च्) मक्षिकास् ते पशुपते वयांसि ते विघसे मा विदन्त ||2||

(11,2।3अ) क्रन्दाय ते प्राणाय याश् च ते भव रोपयः|
(11,2।3च्) नमस् ते रुद्र कृण्मः सहस्राक्षायामर्त्य ||3||

(11,2।4अ) पुरस्तात् ते नमः कृण्म उत्तराद् अधराद् उत|
(11,2।4च्) अभीवर्गाद् दिवस् पर्य् अन्तरिक्षाय ते नमः ||4||

(11,2।5अ) मुखाय ते पशुपते यानि चक्षूंषि ते भव|
(11,2।5च्) त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ||5||

(11,2।6अ) अङ्गेभ्यस् त उदराय जिह्वाया आस्याय ते|
(11,2।6च्) दद्भ्यो गन्धाय ते नमः ||6||

(11,2।7अ) अस्त्रा नीलशिखण्ढेन सहस्राक्षेण वाजिना|
(11,2।7च्) रुद्रेणार्धकघातिना तेन मा सम् अरामहि ||7||

(11,2।8अ) स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः|
(11,2।8च्) मा नो ‘भि मांस्त नमो अस्त्व् अस्मै ||8||

(11,2।9अ) चतुर् नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस् ते|
(11,2।9च्) तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ||9||

(11,2।10अ) तव चतस्रः प्रदिशस् तव द्यौस् तव पृथिवी तवेदम् उग्रोर्व् अन्तरिक्षम्|
(11,2।10च्) तवेदं सर्वम् आत्मन्वद् यत् प्राणत् पृथिवीम् अनु ||10|| {5}

(11,2।11अ) उरुः कोशो वसुधानस् तवायं यस्मिन्न् इमा विश्वा भुवनान्य् अन्तः|
(11,2।11च्) स नो मृढ पशुपते नमस् ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्व् अघरुदो विकेश्यः ||11||

(11,2।12अ) धनुर् बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्ढिन्|
(11,2।12च्) रुद्रस्येषुश् चरति देवहेतिस् तस्यै नमो यतमस्यां दिशीतः ||12||

(11,2।13अ) यो ‘भियातो निलयते त्वां रुद्र निचिकीर्षति|
(11,2।13च्) पश्चाद् अनुप्रयुङ्क्षे तं विद्धस्य पदनीर् इव ||13||

(11,2।14अ) भवारुद्रौ सयुजा संविदानाव् उभाव् उग्रौ चरतो वीर्याय|
(11,2।14च्) ताभ्यां नमो यतमस्यां दिशीतः ||14||

(11,2।15अ) नमस् ते अस्त्व् आयते नमो अस्तु परायते|
(11,2।15च्) नमस् ते रुद्र तिष्ठत आसीनायोत ते नमः ||15||

(11,2।16अ) नमः सायं नमः प्रातर् नमो रात्र्या नमो दिवा|
(11,2।16च्) भवाय च शर्वाय चोभाभ्याम् अकरं नमः ||16||

(11,2।17अ) सहस्राक्षम् अतिपश्यं पुरस्ताद् रुद्रम् अस्यन्तं बहुधा विपश्चितम्|
(11,2।17च्) मोपाराम जिह्वयेयमानम् ||17||

(11,2।18अ) श्यावाश्वं कृष्णम् असितं मृणन्तं भीमं रथं केशिनः पादयन्तम्|
(11,2।18च्) पूर्वे प्रतीमो नमो अस्त्व् अस्मै ||18||

(11,2।19अ) मा नो ‘भि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस् ते|
(11,2।19च्) अन्यत्रास्मद् दिव्यां शाखां वि धूनु ||19||

(11,2।20अ) मा नो हिंसीर् अधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः|
(11,2।20च्) मा त्वया सम् अरामहि ||20|| {6}

(11,2।21अ) मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु|
(11,2।21च्) अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ||21||

(11,2।22अ) यस्य तक्मा कासिका हेतिर् एकम् अश्वस्येव वृषणः क्रन्द एति|
(11,2।22च्) अभिपूर्वं निर्णयते नमो अस्त्व् अस्मै ||22||

(11,2।23अ) यो ‘न्तरिक्षे तिष्ठति विष्टभितो ‘यज्वनः प्रमृणन् देवपीयून्|
(11,2।23च्) तस्मै नमो दशभिः शक्वरीभिः ||23||

(11,2।24अ) तुभ्यम् आरण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि|
(11,2।24च्) तव यक्षं पशुपते अप्स्व् अन्तस् तुभ्यं क्षरन्ति दिव्या आपो वृधे ||24||

(11,2।25अ) शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि|
(11,2।25च्) न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद् धंस्य् उत्तरस्मिन्त् समुद्रे ||25||

(11,2।26अ) मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना|
(11,2।26च्) अन्यत्रास्मद् विद्युतं पातयैताम् ||26||

(11,2।27अ) भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्व् अन्तरिक्षम्|
(11,2।27च्) तस्यै नमो यतमस्यां दिशीतः ||27||

(11,2।28अ) भव राजन् यजमानाय मृढ पशूनां हि पशुपतिर् बभूथ|
(11,2।28च्) यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदे ‘स्य मृढ ||28||

(11,2।29अ) मा नो महान्तम् उत मा नो अर्भकं मा नो वहन्तम् उत मा नो वक्ष्यतः|
(11,2।29च्) मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ||29||

(11,2।30अ) रुद्रस्यैलबकारेभ्यो ‘संसूक्तगिलेभ्यः|
(11,2।30च्) इदं महास्येभ्यः श्वभ्यो अकरं नमः ||30||

(11,2।31अ) नमस् ते घोषिणीभ्यो नमस् ते केशिनीभ्यः|
(11,2।31च्) नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः|
(11,2।31ए) नमस् ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ||31|| {7}

(11,3।1अ) तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ||1||

(11,3।2अ) द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसाव् अक्षिणी सप्तऋषयः प्राणापानाः ||2||

(11,3।3अ) चक्षुर् मुसलं काम उलूखलम् ||3||

(11,3।4अ) दितिः शूर्पम् अदितिः शूर्पग्राही वातो ‘पाविनक् ||4||

(11,3।5अ) अश्वाः कणा गावस् तण्ढुला मशकास् तुषाः ||5||

(11,3।6अ) कब्रु फलीकरणाः शरो ‘भ्रम् ||6||

(11,3।7अ) श्यामम् अयो ‘स्य मांसानि लोहितम् अस्य लोहितम् ||7||

(11,3।8अ) त्रपु भस्म हरितं वर्णः पुष्करम् अस्य गन्धः ||8||

(11,3।9अ) खलः पात्रं स्फ्याव् अंसाव् ईषे अनूक्ये ||9||

(11,3।10अ) आन्त्राणि जत्रवो गुदा वरत्राः ||10||

(11,3।11अ) इयम् एव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौर् अपिधानम् ||11||

(11,3।12अ) सीताः पर्शवः सिकता ऊबध्यम् ||12||

(11,3।13अ) ऋतं हस्तावनेजनं कुल्योपसेचनम् ||13||

(11,3।14अ) ऋचा कुम्भ्य् अधिहितार्त्विज्येन प्रेषिता ||14||

(11,3।15अ) ब्रह्मणा परिगृहीता साम्ना पर्यूडा ||15||

(11,3।16अ) बृहद् आयवनं रथन्तरं दर्विः ||16||

(11,3।17अ) ऋतवः पक्तार आर्तवाः सम् इन्धते ||17||

(11,3।18अ) चरुं पञ्चबिलम् उखं घर्मो ‘भीन्धे ||18||

(11,3।19अ) ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ||19||

(11,3।20अ) यस्मिन्त् समुद्रो द्यौर् भूमिस् त्रयो ‘वरपरं श्रिताः ||20||

(11,3।21अ) यस्य देवा अकल्पन्तोच्छिष्टे षढ् अशीतयः ||21||

(11,3।22अ) तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ||22||

(11,3।23अ) स य ओदनस्य महिमानं विद्यात् ||23||

(11,3।24अ) नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ||24||

(11,3।25अ) यावद् दाताभिमनस्येत तन् नाति वदेत् ||25||

(11,3।26अ) ब्रह्मवादिनो वदन्ति पराञ्चम् ओदनं प्राशी3 प्रत्यञ्चा3म् इति ||26||

(11,3।27अ) त्वम् ओदनं प्राशी3स् त्वाम् ओदना3 इति ||27||

(11,3।28अ) पराञ्चं चैनं प्राशीः प्राणास् त्वा हास्यन्तीत्य् एनम् आह ||28||

(11,3।29अ) प्रत्यञ्चं चैनं प्राशीर् अपानास् त्वा हास्यन्तीत्य् एनम् आह ||29||

(11,3।30अ) नैवाहम् ओदनं न माम् ओदनः ||30||

(11,3।31अ) ओदन एवौदनं प्राशीत् ||31|| {8}

(11,3।32[4।1]अ) ततश् चैनम् अन्येन शीर्ष्णा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।32[4।1]ब्) ज्येष्ठतस् ते प्रजा मरिष्यतीत्य् एनम् आह|
(11,3।32[4।1]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।32[4।1]द्) बृहस्पतिना शीर्ष्णा|
(11,3।32[4।1]ए) तेनैनं प्राशिषं तेनैनम् अजीगमम्|
(11,3।32[4।1]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।32[4।1]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||32|| [1]

(11,3।33[4।2]अ) ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।33[4।2]ब्) बधिरो भविष्यसीत्य् एनम् आह|
(11,3।33[4।2]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।33[4।2]द्) द्यावापृथिवीभ्यां श्रोत्राभ्याम्|
(11,3।33[4।2]ए) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम्|
(11,3।33[4।2]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।33[4।2]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||33|| [2]

(11,3।34[4।3]अ) ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।34[4।3]ब्) अन्धो भविष्यसीत्य् एनम् आह|
(11,3।34[4।3]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।34[4।3]द्) सूर्याचन्द्रमसाभ्याम् अक्षीभ्याम्|
(11,3।34[4।3]ए) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम्|
(11,3।34[4।3]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।34[4।3]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||34|| [3]

(11,3।35[4।4]अ) ततश् चैनम् अन्येन मुखेन प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।35[4।4]ब्) मुखतस् ते प्रजा मरिष्यतीत्य् एनम् आह|
(11,3।35[4।4]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।35[4।4]द्) ब्रह्मणा मुखेन|
(11,3।35[4।4]ए) तेनैनं प्राशिषं तेनैनम् अजीगमम्|
(11,3।35[4।4]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।35[4।4]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||35|| [4]

(11,3।36[4।5]अ) ततश् चैनम् अन्यया जिह्वया प्राशीर् यया चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।36[4।5]ब्) जिह्वा ते मरिष्यतीत्य् एनम् आह|
(11,3।36[4।5]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।36[4।5]द्) अग्नेर् जिह्वया|
(11,3।36[4।5]ए) तयैनं प्राशिषं तयैनम् अजीगमम्|
(11,3।36[4।5]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।36[4।5]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||36|| [5]

(11,3।37[4।6]अ) ततश् चैनम् अन्यैर् दन्तैः प्राशीर् यैश् चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।37[4।6]ब्) दन्तास् ते शत्स्यन्तीत्य् एनम् आह|
(11,3।37[4।6]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।37[4।6]द्) ऋतुभिर् दन्तैः|
(11,3।37[4।6]ए) तैर् एनं प्राशिषं तैर् एनम् अजीगमम्|
(11,3।37[4।6]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।37[4।6]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||37|| [6]

(11,3।38[4।7]अ) ततश् चैनम् अन्यैः प्राणापानैः प्राशीर् यैश् चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।38[4।7]ब्) प्राणापानास् त्वा हास्यन्तीत्य् एनम् आह|
(11,3।38[4।7]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।38[4।7]द्) सप्तऋषिभिः प्राणापानैः|
(11,3।38[4।7]ए) तैर् एनं प्राशिषं तैर् एनम् अजीगमम्|
(11,3।38[4।7]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।38[4।7]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||38|| [7]

(11,3।39[4।8]अ) ततश् चैनम् अन्येन व्यचसा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।39[4।8]ब्) राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह|
(11,3।39[4।8]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।39[4।8]द्) अन्तरिक्षेण व्यचसा|
(11,3।39[4।8]ए) तेनैनं प्राशिषं तेनैनम् अजीगमम्|
(11,3।39[4।8]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।39[4।8]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||39|| [8]

(11,3।40[4।9]अ) ततश् चैनम् अन्येन पृष्ठेन प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।40[4।9]ब्) विद्युत् त्वा हनिष्यतीत्य् एनम् आह|
(11,3।40[4।9]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।40[4।9]द्) दिवा पृष्ठेन|
(11,3।40[4।9]ए) तेनैनं प्राशिषं तेनैनम् अजीगमम्|
(11,3।40[4।9]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।40[4।9]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||40|| [9]

(11,3।41[4।10]अ) ततश् चैनम् अन्येनोरसा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।41[4।10]ब्) कृष्या न रात्स्यसीत्य् एनम् आह|
(11,3।41[4।10]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।41[4।10]द्) पृथिव्योरसा|
(11,3।41[4।10]ए) तेनैनं प्राशिषं तेनैनम् अजीगमम्|
(11,3।41[4।10]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।41[4।10]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||41|| [10]

(11,3।42[4।11]अ) ततश् चैनम् अन्येनोदरेण प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।42[4।11]ब्) उदरदारस् त्वा हनिष्यतीत्य् एनम् आह|
(11,3।42[4।11]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।42[4।11]द्) सत्येनोदरेण|
(11,3।42[4।11]ए) तेनैनं प्राशिषं तेनैनम् अजीगमम्|
(11,3।42[4।11]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।42[4।11]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||42|| [11]

(11,3।43[4।12]अ) ततश् चैनम् अन्येन वस्तिना प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।43[4।12]ब्) अप्सु मरिष्यसीत्य् एनम् आह|
(11,3।43[4।12]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।43[4।12]द्) समुद्रेण वस्तिना|
(11,3।43[4।12]ए) तेनैनं प्राशिषं तेनैनम् अजीगमम्|
(11,3।43[4।12]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।43[4।12]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||43|| [12]

(11,3।44[4।13]अ) ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।44[4।13]ब्) ऊरू ते मरिष्यत इत्य् एनम् आह|
(11,3।44[4।13]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।44[4।13]द्) मित्रावरुणयोर् ऊरुभ्याम्|
(11,3।44[4।13]ए) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम्|
(11,3।44[4।13]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।44[4।13]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||44|| [13]

(11,3।45[4।14]अ) ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।45[4।14]ब्) स्रामो भविष्यसीत्य् एनम् आह|
(11,3।45[4।14]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।45[4।14]द्) त्वष्टुर् अष्ठीवद्भ्याम्|
(11,3।45[4।14]ए) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम्|
(11,3।45[4।14]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।45[4।14]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||45|| [14]

(11,3।46[4।15]अ) ततश् चैनम् अन्याभ्यां पादाभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।46[4।15]ब्) बहुचारी भविष्यसीत्य् एनम् आह|
(11,3।46[4।15]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।46[4।15]द्) अश्विनोः पादाभ्याम्|
(11,3।46[4।15]ए) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम्|
(11,3।46[4।15]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।46[4।15]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||46|| [15]

(11,3।47[4।16]अ) ततश् चैनम् अन्याभ्यां प्रपदाभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।47[4।16]ब्) सर्पस् त्वा हनिष्यतीत्य् एनम् आह|
(11,3।47[4।16]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।47[4।16]द्) सवितुः प्रपदाभ्याम्|
(11,3।47[4।16]ए) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम्|
(11,3।47[4।16]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।47[4।16]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||47|| [16]

(11,3।48[4।17]अ) ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।48[4।17]ब्) ब्राह्मणं हनिष्यसीत्य् एनम् आह|
(11,3।48[4।17]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्|
(11,3।48[4।17]द्) ऋतस्य हस्ताभ्याम्|
(11,3।48[4।17]ए) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम्|
(11,3।48[4।17]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः|
(11,3।48[4।17]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||48|| [17]

(11,3।49[4।18]अ) ततश् चैनम् अन्यया प्रतिष्ठया प्राशीर् यया चैतं पूर्व ऋषयः प्राश्नन्|
(11,3।49[4।18]ब्) अप्रतिष्ठानो ‘नायतनो मरिष्यसीत्य् एनम् आह|
(11,3।49[4।18]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्।
(11,3।49[4।18]द्) सत्ये प्रतिष्ठाय।
(11,3।49[4।18]ए) तयैनं प्राशिषं तयैनम् अजीगमम्।
(11,3।49[4।18]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः।
(11,3।49[4।18]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ||49|| [18] {9}
(11,3।50[5।1]अ) एतद् वै ब्रध्नस्य विष्टपं यद् ओदनः ||50|| [1]

(11,3।51[5।2]अ) ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ||51|| [2]

(11,3।52[5।3]अ) एतस्माद् वा ओदनात् त्रयस्त्रिंशतं लोकान् निर् अमिमीत प्रजापतिः ||52|| [3]

(11,3।53[5।4]अ) तेषां प्रज्ञानाय यज्ञम् असृजत ||53|| [4]

(11,3।54[5।5]अ) स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ||54|| [5]

(11,3।55[5।6]अ) न च प्राणं रुणद्धि सर्वज्यानिं जीयते ||55|| [6]

(11,3।56[5।7]अ) न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ||56|| [7] {10}
(11,4[6]।1अ) प्राणाय नमो यस्य सर्वम् इदं वशे।
(11,4[6]।1च्) यो भूतः सर्वस्येश्वरो यस्मिन्त् सर्वं प्रतिष्ठितम् ||1||

(11,4[6]।2अ) नमस् ते प्राण क्रन्दाय नमस् ते स्तनयित्नवे।
(11,4[6]।2च्) नमस् ते प्राण विद्युते नमस् ते प्राण वर्षते ||2||

(11,4[6]।3अ) यत् प्राण स्तनयित्नुनाभिक्रन्दत्य् ओषधीः।
(11,4[6]।3च्) प्र वीयन्ते गर्भान् दधते ‘थो बह्वीर् वि जायन्ते ||3||

(11,4[6]।4अ) यत् प्राण ऋताव् आगते ‘भिक्रन्दत्य् ओषधीः।
(11,4[6]।4च्) सर्वं तदा प्र मोदते यत् किं च भूम्याम् अधि ||4||

(11,4[6]।5अ) यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम्।
(11,4[6]।5च्) पशवस् तत् प्र मोदन्ते महो वै नो भविष्यति ||5||

(11,4[6]।6अ) अभिवृष्टा ओषधयः प्राणेन सम् अवादिरन्।
(11,4[6]।6च्) आयुर् वै नः प्रातीतरः सर्वा नः सुरभीर् अकः ||6||

(11,4[6]।7अ) नमस् ते अस्त्व् आयते नमो अस्तु परायते।
(11,4[6]।7च्) नमस् ते प्राण तिष्ठत आसीनायोत ते नमः ||7||

(11,4[6]।8अ) नमस् ते प्राण प्राणते नमो अस्त्व् अपानते।
(11,4[6]।8च्) पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ||8||

(11,4[6]।9अ) या ते प्राण प्रिया तनूर् यो ते प्राण प्रेयसी।
(11,4[6]।9च्) अथो यद् भेषजं तव तस्य नो धेहि जीवसे ||9||

(11,4[6]।10अ) प्राणः प्रजा अनु वस्ते पिता पुत्रम् इव प्रियम्।
(11,4[6]।10च्) प्राणो ह सर्वस्येश्वरो यच् च प्राणति यच् च न ||10|| {11}

(11,4[6]।11अ) प्राणो मृत्युः प्राणस् तक्मा प्राणं देवा उपासते|
(11,4[6]।11च्) प्राणो ह सत्यवादिनम् उत्तमे लोक आ दधत् ||11||

(11,4[6]।12अ) प्राणो विराट् प्राणो देष्ट्री प्राणं सर्व उपासते|
(11,4[6]।12च्) प्राणो ह सूर्यश् चन्द्रमाः प्राणम् आहुः प्रजापतिम् ||12||

(11,4[6]।13अ) प्राणापानौ व्रीहियवाव् अनढ्वान् प्राण उच्यते|
(11,4[6]।13च्) यवे ह प्राण आहितो ‘पानो व्रीहिर् उच्यते ||13||

(11,4[6]।14अ) अपानति प्राणति पुरुषो गर्भे अन्तरा|
(11,4[6]।14च्) यदा त्वं प्राण जिन्वस्य् अथ स जायते पुनः ||14||

(11,4[6]।15अ) प्राणम् आहुर् मातरिश्वानं वातो ह प्राण उच्यते|
(11,4[6]।15च्) प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ||15||

(11,4[6]।16अ) आथर्वणीर् आङ्गिरसीर् दैवीर् मनुष्यजा उत|
(11,4[6]।16च्) ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ||16||

(11,4[6]।17अ) यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम्|
(11,4[6]।17च्) ओषधयः प्र जायन्ते ‘थो याः काश् च वीरुधः ||17||

(11,4[6]।18अ) यस् ते प्राणेदं वेद यस्मिंश् चासि प्रतिष्ठितः|
(11,4[6]।18च्) सर्वे तस्मै बलिं हरान् अमुष्मिंल् लोक उत्तमे ||18||

(11,4[6]।19अ) यथा प्राण बलिहृतस् तुभ्यं सर्वाः प्रजा इमाः|
(11,4[6]।19च्) एवा तस्मै बलिं हरान् यस् त्वा शृणवत् सुश्रवः ||19||

(11,4[6]।20अ) अन्तर् गर्भश् चरति देवतास्व् आभूतो भूतः स उ जायते पुनः|
(11,4[6]।20च्) स भूतो भव्यं भविष्यत् पिता पुत्रं प्र विवेशा शचीभिः ||20|| {12}

(11,4[6]।21अ) एकं पादं नोत् खिदति सलिलाद् धंस उच्चरन्|
(11,4[6]।21च्) यद् अङ्ग स तम् उत्खिदेन् नैवाद्य न श्वः स्यात्|
(11,4[6]।21ए) न रात्री नाहः स्यान् न व्य् उछेत् कदा चन ||21||

(11,4[6]।22अ) अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा|
(11,4[6]।22च्) अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं कतमः स केतुः ||22||

(11,4[6]।23अ) यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः|
(11,4[6]।23च्) अन्येषु क्षिप्रधन्वने तस्मै प्राण नमो ‘स्तु ते ||23||

(11,4[6]।24अ) यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः|
(11,4[6]।24च्) अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ||24||

(11,4[6]।25अ) ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ् नि पद्यते|
(11,4[6]।25च्) न सुप्तम् अस्य सुप्तेष्व् अनु शुश्राव कश् चन ||25||

(11,4[6]।26अ) प्राण मा मत् पर्यावृतो न मद् अन्यो भविष्यसि|
(11,4[6]।26च्) अपां गर्भम् इव जीवसे प्राण बध्नामि त्वा मयि ||26|| {13}

(11,5[7]।1अ) ब्रह्मचारीष्णंश् चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति|
(11,5[7]।1च्) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ||1||

(11,5[7]।2अ) ब्रह्मचारिणं पितरो देवजनाः पृथग् देवा अनुसंयन्ति सर्वे|
(11,5[7]।2च्) गन्धर्वा एनम् अन्व् आयन् त्रयस्त्रिंशत् त्रिशताः षट्सहस्राः सर्वान्त् स देवांस् तपसा पिपर्ति ||2||

(11,5[7]।3अ) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भम् अन्तः|
(11,5[7]।3च्) तं रात्रीस् तिस्र उदरे बिभर्ति तं जातं द्रष्टुम् अभिसंयन्ति देवाः ||3||

(11,5[7]।4अ) इयं समित् पृथिवी द्यौर् द्वितीयोतान्तरिक्षं समिधा पृणाति|
(11,5[7]।4च्) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस् तपसा पिपर्ति ||4||

(11,5[7]।5अ) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस् तपसोद् अतिष्ठत्|
(11,5[7]।5च्) तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश् च सर्वे अमृतेन साकम् ||5||

(11,5[7]।6अ) ब्रह्मचार्य् एति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः|
(11,5[7]।6च्) स सद्य एति पूर्वस्माद् उत्तरं समुद्रं लोकान्त् संगृभ्य मुहुर् आचरिक्रत् ||6||

(11,5[7]।7अ) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम्|
(11,5[7]।7च्) गर्भो भूत्वामृतस्य योनाव् इन्द्रो ह भूत्वासुरांस् ततर्ह ||7||

(11,5[7]।8अ) आचार्यस् ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च|
(11,5[7]।8च्) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ||8||

(11,5[7]।9अ) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षाम् आ जभार प्रथमो दिवं च|
(11,5[7]।9च्) ते कृत्वा समिधाव् उपास्ते तयोर् आर्पिता भुवनानि विश्वा ||9||

(11,5[7]।10अ) अर्वाग् अन्यः परो अन्यो दिवस् पृष्ठाद् गुहा निधी निहितौ ब्राह्मणस्य|
(11,5[7]।10च्) तौ रक्षति तपसा ब्रह्मचारी तत् केवलं कृणुते ब्रह्म विद्वान् ||10|| {14}

(11,5[7]।11अ) अर्वाग् अन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे|
(11,5[7]।11च्) तयोः श्रयन्ते रश्मयो ‘धि दृडास् तान् आ तिष्ठति तपसा ब्रह्मचारी ||11||

(11,5[7]।12अ) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच् छेपो ‘नु भूमौ जभार|
(11,5[7]।12च्) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश् चतस्रः ||12||

(11,5[7]।13अ) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्य् अप्सु समिधम् आ दधाति|
(11,5[7]।13च्) तासाम् अर्चींषि पृथग् अभ्रे चरन्ति तासाम् आज्यं पुरुषो वर्षम् आपः ||13||

(11,5[7]।14अ) आचार्यो मृत्युर् वरुणः सोम ओषधयः पयः|
(11,5[7]।14च्) जीमूता आसन्त् सत्वानस् तैर् इदं स्वर् आभृतम् ||14||

(11,5[7]।15अ) अमा घृतं कृणुते केवलम् आचार्यो भूत्वा वरुणः|
(11,5[7]।15च्) यद्यद् अइछत् प्रजापतौ तद् ब्रह्मचारी प्रायछत् स्वान् मित्रो अध्य् आत्मनः ||15||

(11,5[7]।16अ) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः|
(11,5[7]।16च्) प्रजापतिर् वि राजति विराढ् इन्द्रो ‘भवद् वशी ||16||

(11,5[7]।17अ) ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति|
(11,5[7]।17च्) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणम् इछते ||17||

(11,5[7]।18अ) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम्|
(11,5[7]।18च्) अनढ्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ||18||

(11,5[7]।19अ) ब्रह्मचर्येण तपसा देवा मृत्युम् अपाघ्नत|
(11,5[7]।19च्) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वर् आभरत् ||19||

(11,5[7]।20अ) ओषधयो भूतभव्यम् अहोरात्रे वनस्पतिः|
(11,5[7]।20च्) संवत्सरः सह ऋतुभिस् ते जाता ब्रह्मचारिणः ||20|| {15}

(11,5[7]।21अ) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश् च ये|
(11,5[7]।21च्) अपक्षाः पक्षिणश् च ये ते जाता ब्रह्मचारिणः ||21||

(11,5[7]।22अ) पृथक् सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति|
(11,5[7]।22च्) तान्त् सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्य् आभृतम् ||22||

(11,5[7]।23अ) देवानाम् एतत् परिषूतम् अनभ्यारूडं चरति रोचमानम्|
(11,5[7]।23च्) तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश् च सर्वे अमृतेन साकम् ||23||

(11,5[7]।24अ) ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोताः|
(11,5[7]।24च्) प्राणापानौ जनयन्न् आद् व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ||24||

(11,5[7]।25अ) चक्षुः श्रोत्रं यशो अस्मासु धेह्य् अन्नं रेतो लोहितम् उदरम् ||25||

(11,5[7]।26अ) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपो ‘तिष्ठत् तप्यमानः समुद्रे|
(11,5[7]।26च्) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ||26|| {16}

(11,6[8]।1अ) अग्निं ब्रूमो वनस्पतीन् ओषधीर् उत वीरुधः|
(11,6[8]।1च्) इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्व् अंहसः ||1||

(11,6[8]।2अ) ब्रूमो राजानं वरुणं मित्रं विष्णुम् अथो भगम्|
(11,6[8]।2च्) अंशं विवस्वन्तं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ||2||

(11,6[8]।3अ) ब्रूमो देवं सवितारं धातारम् उत पूषणम्|
(11,6[8]।3च्) त्वष्टारम् अग्रियं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ||3||

(11,6[8]।4अ) गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम्|
(11,6[8]।4च्) अर्यमा नाम यो देवस् ते नो मुञ्चन्त्व् अंहसः ||4||

(11,6[8]।5अ) अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसाव् उभा|
(11,6[8]।5च्) विश्वान् आदित्यान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ||5||

(11,6[8]।6अ) वातं ब्रूमः पर्जन्यम् अन्तरिक्षम् अथो दिशः|
(11,6[8]।6च्) आशाश् च सर्वा ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ||6||

(11,6[8]।7अ) मुञ्चन्तु मा शपथ्याद् अहोरात्रे अथो उषाः|
(11,6[8]।7च्) सोमो मा देवो मुञ्चतु यम् आहुश् चन्द्रमा इति ||7||

(11,6[8]।8अ) पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः|
(11,6[8]।8च्) शकुन्तान् पक्षिणो ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ||8||

(11,6[8]।9अ) भवाशर्वाव् इदं ब्रूमो रुद्रं पशुपतिश् च यः|
(11,6[8]।9च्) इषूर् या एषां संविद्म ता नः सन्तु सदा शिवाः ||9||

(11,6[8]।10अ) दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान्|
(11,6[8]।10च्) समुद्रा नद्यो वेशन्तास् ते नो मुञ्चन्त्व् अंहसः ||10|| {17}

(11,6[8]।11अ) सप्तऋषीन् वा इदं ब्रूमो ‘पो देवीः प्रजापतिम्|
(11,6[8]।11च्) पितॄन् यमश्रेष्ठान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः |11||

(11,6[8]।12अ) ये देवा दिविषदो अन्तरिक्षसदश् च ये|
(11,6[8]।12च्) पृथिव्यां शक्रा ये श्रितास् ते नो मुञ्चन्त्व् अंहसः ||12||

(11,6[8]।13अ) आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः|
(11,6[8]।13च्) अङ्गिरसो मनीषिणस् ते नो मुञ्चन्त्व् अंहसः ||13||

(11,6[8]।14अ) यज्ञं ब्रूमो यजमानम् ऋचः सामानि भेषजा|
(11,6[8]।14च्) यजूंषि होत्रा ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ||14||

(11,6[8]।15अ) पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः|
(11,6[8]।15च्) दर्भो भङ्गो यवः सहस् ते नो मुञ्चन्त्व् अंहसः ||15||

(11,6[8]।16अ) अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन्|
(11,6[8]।16च्) मृत्यून् एकशतं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ||16||

(11,6[8]।17अ) ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान्|
(11,6[8]।17च्) समाः संवत्सरान् मासांस् ते नो मुञ्चन्त्व् अंहसः ||17||

(11,6[8]।18अ) एत देवा दक्षिणतः पश्चात् प्राञ्च उदेत|
(11,6[8]।18च्) पुरस्ताद् उत्तराच् छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्व् अंहसः ||18||

(11,6[8]।19अ) विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः|
(11,6[8]।19च्) विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्व् अंहसः ||19||

(11,6[8]।20अ) सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः|
(11,6[8]।20च्) सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्व् अंहसः ||20||

(11,6[8]।21अ) भूतं ब्रूमो भूतपतिं भूतानाम् उत यो वशी|
(11,6[8]।21च्) भूतानि सर्वा संगत्य ते नो मुञ्चन्त्व् अंहसः ||21||

(11,6[8]।22अ) या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः|
(11,6[8]।22च्) संवत्सरस्य ये दंष्ट्रास् ते नः सन्तु सदा शिवाः ||22||

(11,6[8]।23अ) यन् मातली रथक्रीतम् अमृतं वेद भेषजम्|
(11,6[8]।23च्) तद् इन्द्रो अप्सु प्रावेशयत् तद् आपो दत्त भेषजम् ||23|| {18}

(11,7[9]।1अ) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः|
(11,7[9]।1च्) उच्छिष्ट इन्द्रश् चाग्निश् च विश्वम् अन्तः समाहितम् ||1||

(11,7[9]।2अ) उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम्|
(11,7[9]।2च्) आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ||2||

(11,7[9]।3अ) सन्न् उच्छिष्टे असंश् चोभौ मृत्युर् वाजः प्रजापतिः|
(11,7[9]।3च्) लौक्या उच्छिष्ट आयत्ता व्रश् च द्रश् चापि श्रीर् मयि ||3||

(11,7[9]।4अ) दृडो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश|
(11,7[9]।4च्) नाभिम् इव सर्वतश् चक्रम् उच्छिष्टे देवताः श्रिताः ||4||

(11,7[9]।5अ) ऋक् साम यजुर् उच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम्|
(11,7[9]।5च्) हिङ्कार उच्छिष्टे स्वरः साम्नो मेढिश् च तन् मयि ||5||

(11,7[9]।6अ) अइन्द्राग्नं पावमानं महानाम्नीर् महाव्रतम्|
(11,7[9]।6च्) उच्छिष्टे यज्ञस्याङ्गान्य् अन्तर् गर्भ इव मातरि ||6||

(11,7[9]।7अ) राजसूयं वाजपेयम् अग्निष्टोमष् तद् अध्वरः|
(11,7[9]।7च्) अर्काश्वमेधाव् उच्छिष्टे जीवबर्हिर् मदिन्तमः ||7||

(11,7[9]।8अ) अग्न्याधेयम् अथो दीक्षा कामप्रश् छन्दसा सह|
(11,7[9]।8च्) उत्सन्ना यज्ञाः सत्राण्य् उच्छिष्टे ‘धि समाहिताः ||8||

(11,7[9]।9अ) अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः|
(11,7[9]।9च्) दक्षिणेष्टं पूर्तं चोच्छिष्टे ‘धि समाहिताः ||9||

(11,7[9]।10अ) एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीर् उक्थ्यः|
(11,7[9]।10च्) ओतं निहितम् उच्छिष्टे यज्ञस्याणूनि विद्यया ||10|| {19}

(11,7[9]।11अ) चतूरात्रः पञ्चरात्रः षढ्रात्रश् चोभयः सह|
(11,7[9]।11च्) षोढशी सप्तरात्रश् चोच्छिष्टाज् जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ||11||

(11,7[9]।12अ) प्रतीहारो निधनं विश्वजिच् चाभिजिच् च यः|
(11,7[9]।12च्) साह्नातिरात्राव् उच्छिष्टे द्वादशाहो ‘पि तन् मयि ||12||

(11,7[9]।13अ) सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः|
(11,7[9]।13च्) उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ||13||

(11,7[9]।14अ) नव भूमीः समुद्रा उच्छिष्टे ‘धि श्रिता दिवः|
(11,7[9]।14च्) आ सूर्यो भात्य् उच्छिष्टे ‘होरात्रे अपि तन् मयि ||14||

(11,7[9]।15अ) उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः|
(11,7[9]।15च्) बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ||15||

(11,7[9]।16अ) पिता जनितुर् उच्छिष्टो ‘सोः पौत्रः पितामहः|
(11,7[9]।16च्) स क्षियति विश्वस्येशानो वृषा भूम्याम् अतिघ्न्यः ||16||

(11,7[9]।17अ) ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश् च कर्म च|
(11,7[9]।17च्) भूतं भविष्यद् उच्छिष्टे वीर्यं लक्ष्मीर् बलं बले ||17||

(11,7[9]।18अ) समृद्धिर् ओज आकूतिः क्षत्रं राष्ट्रं षढ् उर्व्यः|
(11,7[9]।18च्) संवत्सरो ‘ध्य् उच्छिष्ट इढा प्रैषा ग्रहा हविः ||18||

(11,7[9]।19अ) चतुर्होतार आप्रियश् चातुर्मास्यानि नीविदः|
(11,7[9]।19च्) उच्छिष्टे यज्ञा होत्राः पशुबन्धास् तद् इष्टयः ||19||

(11,7[9]।20अ) अर्धमासाश् च मासाश् चार्तवा ऋतुभिः सह|
(11,7[9]।20च्) उच्छिष्टे घोषिणीर् आप स्तनयित्नुः श्रुतिर् मही ||20|| {20}

(11,7[9]।21अ) शर्कराः सिकता अश्मान ओषधयो वीरुधस् तृणा|
(11,7[9]।21च्) अभ्राणि विद्युतो वर्षम् उच्छिष्टे संश्रिता श्रिता ||21||

(11,7[9]।22अ) राद्धिः प्राप्तिः समाप्तिर् व्याप्तिर् मह एधतुः|
(11,7[9]।22च्) अत्याप्तिर् उच्छिष्टे भूतिश् चाहिता निहिता हिता ||22||

(11,7[9]।23अ) यच् च प्राणति प्राणेन यच् च पश्यति चक्षुषा|
(11,7[9]।23च्) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ||23||

(11,7[9]।24अ) ऋचः सामानि छन्दांसि पुराणं यजुषा सह|
(11,7[9]।24च्) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ||24||

(11,7[9]।25अ) प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या|
(11,7[9]।25च्) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ||25||

(11,7[9]।26अ) आनन्दा मोदाः प्रमुदो ‘भीमोदमुदश् च ये|
(11,7[9]।26च्) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ||26||

(11,7[9]।27अ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश् च ये|
(11,7[9]।27च्) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ||27|| {21}

(11,8[10]।1अ) यन् मन्युर् जायाम् आवहत् संकल्पस्य गृहाद् अधि|
(11,8[10]।1च्) क आसं जन्याः के वराः क उ ज्येष्ठवरो ‘भवत् ||1||

(11,8[10]।2अ) तपश् चैवास्तां कर्म चान्तर् महत्य् अर्णवे|
(11,8[10]।2च्) त आसं जन्यास् ते वरा ब्रह्म ज्येष्ठवरो ‘भवत् ||2||

(11,8[10]।3अ) दश साकम् अजायन्त देवा देवेभ्यः पुरा|
(11,8[10]।3च्) यो वै तान् विद्यात् प्रत्यक्षं स वा अद्य महद् वदेत् ||3||

(11,8[10]।4अ) प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या|
(11,8[10]।4च्) व्यानोदानौ वाङ् मनस् ते वा आकूतिम् आवहन् ||4||

(11,8[10]।5अ) अजाता आसन्न् ऋतवो ‘थो धाता बृहस्पतिः|
(11,8[10]।5च्) इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठम् उपासत ||5||

(11,8[10]।6अ) तपश् चैवास्तां कर्म चान्तर् महत्य् अर्णवे|
(11,8[10]।6च्) तपो ह जज्ञे कर्मणस् तत् ते ज्येष्ठम् उपासत ||6||

(11,8[10]।7अ) येत आसीद् भूमिः पूर्वा याम् अद्धातय इद् विदुः|
(11,8[10]।7च्) यो वै तां विद्यान् नामथा स मन्येत पुराणवित् ||7||

(11,8[10]।8अ) कुत इन्द्रः कुतः सोमः कुतो अग्निर् अजायत|
(11,8[10]।8च्) कुतस् त्वष्टा सम् अभवत् कुतो धाताजायत ||8||

(11,8[10]।9अ) इन्द्राद् इन्द्रः सोमात् सोमो अग्नेर् अग्निर् अजायत|
(11,8[10]।9च्) त्वष्टा ह जज्ञे त्वष्टुर् धातुर् धाताजायत ||9||

(11,8[10]।10अ) ये त आसन् दश जाता देवा देवेभ्यः पुरा|
(11,8[10]।10च्) पुत्रेभ्यो लोकं दत्त्वा कस्मिंस् ते लोक आसते ||10|| {22}

(11,8[10]।11अ) यदा केशान् अस्थि स्नाव मांसं मज्जानम् आभरत्|
(11,8[10]।11च्) शरीरं कृत्वा पादवत् कं लोकम् अनु प्राविशत् ||11||

(11,8[10]।12अ) कुतः केशान् कुतः स्नाव कुतो अस्थीन्य् आभरत्|
(11,8[10]।12च्) अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ||12||

(11,8[10]।13अ) संसिचो नाम ते देवा ये संभारान्त् समभरन्|
(11,8[10]।13च्) सर्वं संसिच्य मर्त्यं देवाः पुरुषम् आविशन् ||13||

(11,8[10]।14अ) ऊरू पादाव् अष्ठीवन्तौ शिरो हस्ताव् अथो मुखम्|
(11,8[10]।14च्) पृष्टीर् बर्जह्ये पार्श्वे कस् तत् सम् अदधाद् ऋषिः ||14||

(11,8[10]।15अ) शिरो हस्ताव् अथो मुखं जिह्वां ग्रीवाश् च कीकसाः|
(11,8[10]।15च्) त्वचा प्रावृत्य सर्वं तत् संधा सम् अदधान् मही ||15||

(11,8[10]।16अ) यत् तच् छरीरम् अशयत् संधया संहितं महत्|
(11,8[10]।16च्) येनेदम् अद्य रोचते को अस्मिन् वर्णम् आभरत् ||16||

(11,8[10]।17अ) सर्वे देवा उपाशिक्षन् तद् अजानाद् वधूः सती|
(11,8[10]।17च्) ईशा वशस्य या जाया सास्मिन् वर्णम् आभरत् ||17||

(11,8[10]।18अ) यदा त्वष्टा व्यतृणत् पिता त्वष्टुर् य उत्तरः|
(11,8[10]।18च्) गृहं कृत्वा मर्त्यं देवाः पुरुषम् आविशन् ||18||

(11,8[10]।19अ) स्वप्नो वै तन्द्रीर् निरृतिः पाप्मानो नाम देवताः|
(11,8[10]।19च्) जरा खालत्यं पालित्यं शरीरम् अनु प्राविशन् ||19||

(11,8[10]।20अ) स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्|
(11,8[10]।20च्) बलं च क्षत्रम् ओजश् च शरीरम् अनु प्राविशन् ||20|| {23}

(11,8[10]।21अ) भूतिश् च वा अभूतिश् च रातयो ‘रातयश् च याः|
(11,8[10]।21च्) क्षुधश् च सर्वास् तृष्णाश् च शरीरम् अनु प्राविशन् ||21||

(11,8[10]।22अ) निन्दाश् च वा अनिन्दाश् च यच् च हन्तेति नेति च|
(11,8[10]।22च्) शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ||22||

(11,8[10]।23अ) विद्याश् च वा अविद्याश् च यच् चान्यद् उपदेश्यम्|
(11,8[10]।23च्) शरीरं ब्रह्म प्राविशद् ऋचः सामाथो यजुः ||23||

(11,8[10]।24अ) आनन्दा मोदाः प्रमुदो ‘भीमोदमुदश् च ये|
(11,8[10]।24च्) हसो नरिष्टा नृत्तानि शरीरम् अनु प्राविशन् ||24||

(11,8[10]।25अ) आलापाश् च प्रलापाश् चाभीलापलपश् च ये|
(11,8[10]।25च्) शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ||25||

(11,8[10]।26अ) प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या|
(11,8[10]।26च्) व्यानोदानौ वाङ् मनः शरीरेण त ईयन्ते ||26||

(11,8[10]।27अ) आशिषश् च प्रशिषश् च संशिषो विशिषश् च याः|
(11,8[10]।27च्) चित्तानि सर्वे संकल्पाः शरीरम् अनु प्राविशन् ||27||

(11,8[10]।28अ) आस्तेयीश् च वास्तेयीश् च त्वरणाः कृपणाश् च याः|
(11,8[10]।28च्) गुह्याः शुक्रा स्थूला अपस् ता बीभत्साव् असादयन् ||28||

(11,8[10]।29अ) अस्थि कृत्वा समिधं तद् अष्टापो असादयन्|
(11,8[10]।29च्) रेतः कृत्वाज्यं देवाः पुरुषम् आविशन् ||29||

(11,8[10]।30अ) या आपो याश् च देवता या विराढ् ब्रह्मणा सह|
(11,8[10]।30च्) शरीरं ब्रह्म प्राविशच् छरीरे ‘धि प्रजापतिः ||30||

(11,8[10]।31अ) सूर्यश् चक्षुर् वातः प्राणं पुरुषस्य वि भेजिरे|
(11,8[10]।31च्) अथास्येतरम् आत्मानं देवाः प्रायछन्न् अग्नये ||31||

(11,8[10]।32अ) तस्माद् वै विद्वान् पुरुषम् इदं ब्रह्मेति मन्यते|
(11,8[10]।32च्) सर्वा ह्य् अस्मिन् देवता गावो गोष्ठ इवासते ||32||

(11,8[10]।33अ) प्रथमेन प्रमारेण त्रेधा विष्वङ् वि गछति|
(11,8[10]।33च्) अद एकेन गछत्य् अद एकेन गछतीहैकेन नि षेवते ||33||

(11,8[10]।34अ) अप्सु स्तीमासु वृद्धासु शरीरम् अन्तरा हितम्|
(11,8[10]।34च्) तस्मिं छवो ‘ध्य् अन्तरा तस्माच् छवो ‘ध्य् उच्यते ||34|| {24}

(11,9[11]।1अ) ये बाहवो या इषवो धन्वनां वीर्याणि च|
(11,9[11]।1च्) असीन् परशून् आयुधं चित्ताकूतं च यद् धृदि|
(11,9[11]।1ए) सर्वं तद् अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ||1||

(11,9[11]।2अ) उत् तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्|
(11,9[11]।2च्) संदृष्टा गुप्ता वः सन्तु या नो मित्राण्य् अर्बुदे ||2||

(11,9[11]।3अ) उत् तिष्ठतम् आ रभेताम् आदानसंदानाभ्याम्|
(11,9[11]।3च्) अमित्राणां सेना अभि धत्तम् अर्बुदे ||3||

(11,9[11]।4अ) अर्बुदिर् नाम यो देव ईशानश् च न्यर्बुदिः|
(11,9[11]।4च्) याभ्याम् अन्तरिक्षम् आवृतम् इयं च पृथिवी मही|
(11,9[11]।4ए) ताभ्याम् इन्द्रमेदिभ्याम् अहं जितम् अन्व् एमि सेनया ||4||

(11,9[11]।5अ) उत् तिष्ठ त्वं देवजनार्बुदे सेनया सह|
(11,9[11]।5च्) भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ||5||

(11,9[11]।6अ) सप्त जातान् न्यर्बुद उदाराणां समीक्षयन्|
(11,9[11]।6च्) तेभिष् ट्वम् आज्ये हुते सर्वैर् उत् तिष्ठ सेनया ||6||

(11,9[11]।7अ) प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु|
(11,9[11]।7च्) विकेशी पुरुषे हते रदिते अर्बुदे तव ||7||

(11,9[11]।8अ) संकर्षन्ती करूकरं मनसा पुत्रम् इछन्ती|
(11,9[11]।8च्) पतिं भ्रातरम् आत् स्वान् रदिते अर्बुदे तव ||8||

(11,9[11]।9अ) अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः|
(11,9[11]।9च्) ध्वाङ्क्षाः शकुनयस् तृप्यन्त्व् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ||9||

(11,9[11]।10अ) अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः|
(11,9[11]।10च्) पौरुषेये ‘धि कुणपे रदिते अर्बुदे तव ||10|| {25}

(11,9[11]।11अ) आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे|
(11,9[11]।11च्) निवाशा घोषाः सं यन्त्व् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ||11||

(11,9[11]।12अ) उद् वेपय सं विजन्तां भियामित्रान्त् सं सृज|
(11,9[11]।12च्) उरुग्राहैर् बाह्वङ्कैर् विध्यामित्रान् न्यर्बुदे ||12||

(11,9[11]।13अ) मुह्यन्त्व् एषां बाहवश् चित्ताकूतं च यद् धृदि|
(11,9[11]।13च्) मैषाम् उच् छेषि किं चन रदिते अर्बुदे तव ||13||

(11,9[11]।14अ) प्रतिघ्नानाः सं धावन्तूरः पटौराव् आघ्नानाः|
(11,9[11]।14च्) अघारिणीर् विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ||14||

(11,9[11]।15अ) श्वन्वतीर् अप्सरसो रूपका उतार्बुदे|
(11,9[11]।15च्) अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम्|
(11,9[11]।15ए) सर्वास् ता अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ||15||

(11,9[11]।16अ) खढूरे ‘धिचङ्क्रमां खर्विकां खर्ववासिनीम्|
(11,9[11]।16च्) य उदारा अन्तर्हिता गन्धर्वाप्सरसश् च ये|
(11,9[11]।16ए) सर्पा इतरजना रक्षांसि ||16||

(11,9[11]।17अ) चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कां असृङ्मुखान्|
(11,9[11]।17च्) स्वभ्यसा ये चोद्भ्यसाः ||17||

(11,9[11]।18अ) उद् वेपय त्वम् अर्बुदे ‘मित्राणाम् अमूः सिचः|
(11,9[11]।18च्) जयंश् च जिष्णुश् चामित्रां जयताम् इन्द्रमेदिनौ ||18||

(11,9[11]।19अ) प्रब्लीनो मृदितः शयां हतो ‘मित्रो न्यर्बुदे|
(11,9[11]।19च्) अग्निजिह्वा धूमशिखा जयन्तीर् यन्तु सेनया ||19||

(11,9[11]।20अ) तयार्बुदे प्रणुत्तानाम् इन्द्रो हन्तु वरंवरम्|
(11,9[11]।20च्) अमित्राणां शचीपतिर् मामीषां मोचि कश् चन ||20|| {26}

(11,9[11]।21अ) उत् कसन्तु हृदयान्य् ऊर्ध्वः प्राण उद् ईषतु|
(11,9[11]।21च्) शौष्कास्यम् अनु वर्तताम् अमित्रान् मोत मित्रिणः ||21||

(11,9[11]।22अ) ये च धीरा ये चाधीराः पराञ्चो बधिराश् च ये|
(11,9[11]।22च्) तमसा ये च तूपरा अथो बस्ताभिवासिनः|
(11,9[11]।22ए) सर्वांस् तां अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ||22||

(11,9[11]।23अ) अर्बुदिश् च त्रिषन्धिश् चामित्रान् नो वि विध्यताम्|
(11,9[11]।23च्) यथैषाम् इन्द्र वृत्रहन् हनाम शचीपते ‘मित्राणां सहस्रशः ||23||

(11,9[11]।24अ) वनस्पतीन् वानस्पत्यान् ओषधीर् उत वीरुधः|
(11,9[11]।24च्) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन्|
(11,9[11]।24ए) सर्वांस् तां अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ||24||

(11,9[11]।25अ) ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः|
(11,9[11]।25च्) ईशां व इन्द्रश् चाग्निश् च धाता मित्रः प्रजापतिः|
(11,9[11]।25ए) ईशां व ऋषयश् चक्रुर् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ||25||

(11,9[11]।26अ) तेषां सर्वेषाम् ईशाना उत् तिष्ठत सं नह्यध्वम्|
(11,9[11]।26च्) मित्रा देवजना यूयम् इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ||26|| {27}

(11,10[12]।1अ) उत् तिष्ठत सं नह्यध्वम् उदाराः केतुभिः सह|
(11,10[12]।1च्) सर्पा इतरजना रक्षांस्य् अमित्रान् अनु धावत ||1||

(11,10[12]।2अ) ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह|
(11,10[12]।2च्) ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः|
(11,10[12]।2ए) त्रिषन्धेस् ते चेतसि दुर्णामान उपासताम् ||2||

(11,10[12]।3अ) अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः|
(11,10[12]।3च्) क्रव्यादो वातरंहस आ सजन्त्व् अमित्रान् वज्रेण त्रिषन्धिना ||3||

(11,10[12]।4अ) अन्तर् धेहि जातवेद आदित्य कुणपं बहु|
(11,10[12]।4च्) त्रिषन्धेर् इयं सेना सुहितास्तु मे वशे ||4||

(11,10[12]।5अ) उत् तिष्ठ त्वं देवजनार्बुदे सेनया सह|
(11,10[12]।5च्) अयं बलिर् व आहुतस् त्रिषन्धेर् आहुतिः प्रिया ||5||

(11,10[12]।6अ) शितिपदी सं द्यतु शरव्येयं चतुष्पदी|
(11,10[12]।6च्) कृत्ये ‘मित्रेभ्यो भव त्रिषन्धेः सह सेनया ||6||

(11,10[12]।7अ) धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु|
(11,10[12]।7च्) त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ||7||

(11,10[12]।8अ) अवायन्तां पक्षिणो ये वयांस्य् अन्तरिक्षे दिवि ये चरन्ति|
(11,10[12]।8च्) श्वापदो मक्षिकाः सं रभन्ताम् आमादो गृध्राः कुणपे रदन्ताम् ||8||

(11,10[12]।9अ) याम् इन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते|
(11,10[12]।9च्) तयाहम् इन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ||9||

(11,10[12]।10अ) बृहस्पतिर् आङ्गिरस ऋषयो ब्रह्मसंशिताः|
(11,10[12]।10च्) असुरक्षयणं वधं त्रिषन्धिं दिव्य् आश्रयन् ||10|| {28}

(11,10[12]।11अ) येनासौ गुप्त आदित्य उभाव् इन्द्रश् च तिष्ठतः|
(11,10[12]।11च्) त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ||11||

(11,10[12]।12अ) सर्वांल् लोकान्त् सम् अजयन् देवा आहुत्यानया|
(11,10[12]।12च्) बृहस्पतिर् आङ्गिरसो वज्रं यम् असिञ्चतासुरक्षयणं वधम् ||12||

(11,10[12]।13अ) बृहस्पतिर् आङ्गिरसो वज्रं यम् असिञ्चतासुरक्षयणं वधम्|
(11,10[12]।13च्) तेनाहम् अमूं सेनां नि लिम्पामि बृहस्पते ‘मित्रान् हन्म्य् ओजसा ||13||

(11,10[12]।14अ) सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम्|
(11,10[12]।14च्) इमां जुषध्वम् आहुतिम् इतो जयत मामुतः ||14||

(11,10[12]।15अ) सर्वे देवा अत्यायन्तु त्रिषन्धेर् आहुतिः प्रिया|
(11,10[12]।15च्) संधां महतीं रक्षत ययाग्रे असुरा जिताः ||15||

(11,10[12]।16अ) वायुर् अमित्राणाम् इष्वग्राण्य् आञ्चतु|
(11,10[12]।16च्) इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधाम् इषुम्|
(11,10[12]।16ए) आदित्य एषाम् अस्त्रं वि नाशयतु चन्द्रमा युताम् अगतस्य पन्थाम् ||16||

(11,10[12]।17अ) यदि प्रेयुर् देवपुरा ब्रह्म वर्माणि चक्रिरे|
(11,10[12]।17च्) तनूपानं परिपाणं कृण्वाना यद् उपोचिरे सर्वं तद् अरसं कृधि ||17||

(11,10[12]।18अ) क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम्|
(11,10[12]।18च्) त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ||18||

(11,10[12]।19अ) त्रिषन्धे तमसा त्वम् अमित्रान् परि वारय|
(11,10[12]।19च्) पृषदाज्यप्रणुत्तानां मामीषां मोचि कश् चन ||19||

(11,10[12]।20अ) शितिपदी सं पतत्व् अमित्राणाम् अमूः सिचः|
(11,10[12]।20च्) मुह्यन्त्व् अद्यामूः सेना अमित्राणां न्यर्बुदे ||20|| {29}

(11,10[12]।21अ) मूडा अमित्रा न्यर्बुदे जह्य् एषां वरंवरम्|
(11,10[12]।21च्) अनया जहि सेनया ||21||

(11,10[12]।22अ) यश् च कवची यश् चाकवचो ‘मित्रो यश् चाज्मनि|
(11,10[12]।22च्) ज्यापाशैः कवचपाशैर् अज्मनाभिहतः शयाम् ||22||

(11,10[12]।23अ) ये वर्मिणो ये ‘वर्माणो अमित्रा ये च वर्मिणः|
(11,10[12]।23च्) सर्वांस् तां अर्बुदे हतां छ्वानो ‘दन्तु भूम्याम् ||23||

(11,10[12]।24अ) ये रथिनो ये अरथा असादा ये च सादिनः|
(11,10[12]।24च्) सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ||24||

(11,10[12]।25अ) सहस्रकुणपा शेताम् आमित्री सेना समरे वधानाम्|
(11,10[12]।25च्) विविद्धा ककजाकृता ||25||

(11,10[12]।26अ) मर्माविधं रोरुवतं सुपर्णैर् अदन्तु दुश्चितं मृदितं शयानम्|
(11,10[12]।26च्) य इमां प्रतीचीम् आहुतिम् अमित्रो नो युयुत्सति ||26||

(11,10[12]।27अ) यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम्|
(11,10[12]।27च्) तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ||27|| {30}

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>