अथर्ववेद कांण्ड 10

(10,1।1अ) यां कल्पयन्ति वहतौ वधूम् इव विश्वरूपां हस्तकृतां चिकित्सवः|
(10,1।1च्) साराद् एत्व् अप नुदाम एनाम् ||1||

(10,1।2अ) शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा|
(10,1।2च्) साराद् एत्व् अप नुदाम एनाम् ||2||

(10,1।3अ) शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता|
(10,1।3च्) जाया पत्या नुत्तेव कर्तारं बन्ध्व् ऋछतु ||3||

(10,1।4अ) अनयाहम् ओषध्या सर्वाः कृत्या अदूदुषम्|
(10,1।4च्) यां क्षेत्रे चक्रुर् यां गोषु यां वा ते पुरुषेषु ||4||

(10,1।5अ) अघम् अस्त्व् अघकृते शपथः शपथीयते|
(10,1।5च्) प्रत्यक् प्रतिप्रहिण्मो यथा कृत्याकृतं हनत् ||5||

(10,1।6अ) प्रतीचीन आङ्गिरसो ‘ध्यक्षो नः पुरोहितः|
(10,1।6च्) प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ||6||

(10,1।7अ) यस् त्वोवाच परेहीति प्रतिकूलम् उदाय्यम्|
(10,1।7च्) तं कृत्ये ‘भिनिवर्तस्व मास्मान् इछो अनागसः ||7||

(10,1।8अ) यस् ते परूंषि संदधौ रथस्येव र्भुर् धिया|
(10,1।8च्) तं गछ तत्र ते ‘यनम् अज्ञातस् ते ‘यं जनः ||8||

(10,1।9अ) ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः|
(10,1।9च्) शंभ्व् इदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ||9||

(10,1।10अ) यद् दुर्भगां प्रस्नपितां मृतवत्साम् उपेयिम|
(10,1।10च्) अपैतु सर्वं मत् पापं द्रविणं मोप तिष्ठतु ||10|| {1}

(10,1।11अ) यत् ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः|
(10,1।11च्) संदेश्यात् सर्वस्मात् पापाद् इमा मुञ्चन्तु त्वौषधीः ||11||

(10,1।12अ) देवैनसात् पित्र्यान् नामग्राहात् संदेश्याद् अभिनिष्कृतात्|
(10,1।12च्) मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ||12||

(10,1।13अ) यथा वातश् च्यावयति भूम्या रेणुम् अन्तरिक्षाच् चाभ्रम्|
(10,1।13च्) एवा मत् सर्वं दुर्भूतं ब्रह्मनुत्तम् अपायति ||13||

(10,1।14अ) अप क्राम नानदती विनद्धा गर्दभीव|
(10,1।14च्) कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ||14||

(10,1।15अ) अयं पन्थाः कृत्येति त्वा नयामो ‘भिप्रहितां प्रति त्वा प्र हिण्मः|
(10,1।15च्) तेनाभि याहि भञ्जत्य् अनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ||15||

(10,1।16अ) पराक् ते ज्योतिर् अपथं ते अर्वाग् अन्यत्रास्मद् अयना कृणुष्व|
(10,1।16च्) परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ||16||

(10,1।17अ) वात इव वृक्षान् नि मृणीहि पादय मा गाम् अश्वं पुरुषम् उच् छिष एषाम्|
(10,1।17च्) कर्तॄन् निवृत्येतः कृत्ये ‘प्रजास्त्वाय बोधय ||17||

(10,1।18अ) यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः|
(10,1।18च्) अग्नौ वा त्वा गार्हपत्ये ‘भिचेरुः पाकं सन्तं धीरतरा अनागसम् ||18||

(10,1।19अ) उपाहृतम् अनुबुद्धं निखातं वैरं त्सार्य् अन्व् अविदाम कर्त्रम्|
(10,1।19च्) तद् एतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ||19||

(10,1।20अ) स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि|
(10,1।20च्) उत् तिष्ठैव परेहीतो ‘ज्ञाते किम् इहेछसि ||20|| {2}

(10,1।21अ) ग्रीवास् ते कृत्ये पादौ चापि कर्त्स्यामि निर् द्रव|
(10,1।21च्) इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ||21||

(10,1।22अ) सोमो राजाधिपा मृढिता च भूतस्य नः पतयो मृढयन्तु ||22||

(10,1।23अ) भवाशर्वाव् अस्यतां पापकृते कृत्याकृते|
(10,1।23च्) दुष्कृते विद्युतं देवहेतिम् ||23||

(10,1।24अ) यद्य् एयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा|
(10,1।24च्) सेतो ‘ष्टापदी भूत्वा पुनः परेहि दुछुने ||24||

(10,1।25अ) अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि|
(10,1।25च्) जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ||25||

(10,1।26अ) परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय|
(10,1।26च्) मृगः स मृगयुस् त्वं न त्वा निकर्तुम् अर्हति ||26||

(10,1।27अ) उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा|
(10,1।27च्) उत पूर्वस्य निघ्नतो नि हन्त्य् अपरः प्रति ||27||

(10,1।28अ) एतद् धि शृणु मे वचो ‘थेहि यत एयथ|
(10,1।28च्) यस् त्वा चकार तं प्रति ||28||

(10,1।29अ) अनागोहत्या वै भीमा कृत्ये मा नो गाम् अश्वं पुरुषं वधीः|
(10,1।29च्) यत्रयत्रासि निहिता ततस् त्वोत् थापयामसि पर्णाल् लघीयसी भव ||29||

(10,1।30अ) यदि स्थ तमसावृता जालेनभिहिता इव|
(10,1।30च्) सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ||30||

(10,1।31अ) कृत्याकृतो वलगिनो ‘भिनिष्कारिणः प्रजाम्|
(10,1।31च्) मृणीहि कृत्ये मोच् छिषो ‘मून् कृत्याकृतो जहि ||31||

(10,1।32अ) यथा सूर्यो मुच्यते तमसस् परि रात्रिं जहात्य् उषसश्च केतून्|
(10,1।32च्) एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ||32|| {3}

(10,2।1अ) केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ|
(10,2।1च्) केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ||1||

(10,2।2अ) कस्मान् नु गुल्फाव् अधराव् अकृण्वन्न् अष्ठीवन्ताव् उत्तरौ पुरुषस्य|
(10,2।2च्) जङ्घे निरृत्य न्य् अदधुः क्व स्विज् जानुनोः संधी क उ तच् चिकेत ||2||

(10,2।3अ) चतुष्टयं युजते संहितान्तं जानुभ्याम् ऊर्ध्वं शिथिरं कबन्धम्|
(10,2।3च्) श्रोणी यद् ऊरू क उ तज् जजान याभ्यां कुसिन्धं सुदृडं बभूव ||3||

(10,2।4अ) कति देवाः कतमे त आसन् य उरो ग्रीवाश् चिक्युः पुरुषस्य|
(10,2।4च्) कति स्तनौ व्य् अदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीर् अचिन्वन् ||4||

(10,2।5अ) को अस्य बाहू सम् अभरद् वीर्यां करवाद् इति|
(10,2।5च्) अंसौ को अस्य तद् देवः कुसिन्धे अध्य् आ दधौ ||5||

(10,2।6अ) कः सप्त खानि वि ततर्द शीर्षणि कर्णाव् इमौ नासिके चक्षणी मुखम्|
(10,2।6च्) येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ||6||

(10,2।7अ) हन्वोर् हि जिह्वाम् अदधात् पुरूचीम् अधा महीम् अधि शिश्राय वाचम्|
(10,2।7च्) स आ वरीवर्ति भुवनेष्व् अन्तर् अपो वसानः क उ तच् चिकेत ||7||

(10,2।8अ) मस्तिष्कम् अस्य यतमो ललातं ककाटिकां प्रथमो यः कपालम्|
(10,2।8च्) चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ||8||

(10,2।9अ) प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्यः|
(10,2।9च्) आनन्दान् उग्रो नन्दांश् च कस्माद् वहति पूरुषः ||9||

(10,2।10अ) आर्तिर् अवर्तिर् निरृतिः कुतो नु पुरुषे ‘मतिः|
(10,2।10च्) राद्धिः समृद्धिर् अव्यृद्धिर् मतिर् उदितयः कुतः ||10|| {4}

(10,2।11अ) को अस्मिन्न् आपो व्य् अदधात् विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः|
(10,2।11च्) तीव्रा अरुणा लोहिनीस् ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ||11||

(10,2।12अ) को अस्मिन् रूपम् अदधात् को मह्मानं च नाम च|
(10,2।12च्) गातुं को अस्मिन् कः केतुं कश् चरित्रानि पुरुषे ||12||

(10,2।13अ) को अस्मिन् प्राणं अवयत् को अपानं व्यानम् उ|
(10,2।13च्) समानम् अस्मिन् को देवो ‘धि शिश्राय पुरुषे ||13||

(10,2।14अ) को अस्मिन् यज्ञम् अदधाद् एको देवो ‘धि पुरुषे|
(10,2।14च्) को अस्मिन्त् सत्यं को ‘नृतं कुतो मृत्युः कुतो ‘मृतम् ||14||

(10,2।15अ) को अस्मै वासः पर्य् अदधात् को अस्यायुर् अकल्पयत्|
(10,2।15च्) बलं को अस्मै प्रायछत् को अस्याकल्पयज् जवम् ||15||

(10,2।16अ) केनापो अन्व् अतनुत केनाहर् अकरोद् रुचे|
(10,2।16च्) उषसं केनान्व् अइन्द्ध केन सायंभवं ददे ||16||

(10,2।17अ) को अस्मिन् रेतो न्य् अदधात् तन्तुर् आ तायताम् इति|
(10,2।17च्) मेधां को अस्मिन्न् अध्य् अउहत् को बाणं को नृतो दधौ ||17||

(10,2।18अ) केनेमां भूमिम् अउर्णोत् केन पर्य् अभवद् दिवम्|
(10,2।18च्) केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ||18||

(10,2।19अ) केन पर्जन्यम् अन्व् एति केन सोमं विचक्षणम्|
(10,2।19च्) केन यज्ञम् च श्रद्धां च केनास्मिन् निहितं मनः ||19||

(10,2।20अ) केन श्रोत्रियम् आप्नोति केनेमं परमेष्ठिनम्|
(10,2।20च्) केनेमम् अग्निं पूरुषः केन संवत्सरं ममे ||20|| {5}

(10,2।21अ) ब्रह्म श्रोत्रियम् आप्नोति ब्रह्मेमं परमेष्ठिनम्|
(10,2।21च्) ब्रह्मेमम् अग्निं पूरुषो ब्रह्म संवत्सरं ममे ||21||

(10,2।22अ) केन देवां अनु क्षियति केन दैवजनीर् विशः|
(10,2।22च्) केनेदम् अन्यन् नक्षत्रं केन सत् क्षत्रम् उच्यते ||22||

(10,2।23अ) ब्रह्म देवां अनु क्षियति ब्रह्म दैवजनीर् विशः|
(10,2।23च्) ब्रह्मेदम् अन्यन् नक्षत्रं ब्रह्म सत् क्षत्रम् उच्यते ||23||

(10,2।24अ) केनेयं भूमिर् विहिता केन द्यौर् उत्तरा हिता|
(10,2।24च्) केनेदम् ऊर्ध्वं तिर्यक् चान्तरिक्षम् व्यचो हितम् ||24||

(10,2।25अ) ब्रह्मणा भूमिर् विहिता ब्रह्म द्यौर् उत्तरा हिता|
(10,2।25च्) ब्रह्मेदम् ऊर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ||25||

(10,2।26अ) मूर्धानम् अस्य संसीव्याथर्वा हृदयं च यत्|
(10,2।26च्) मस्तिष्काद् ऊर्ध्वः प्रैरयत् पवमानो ‘धि शीर्षतः ||26||

(10,2।27अ) तद् वा अथर्वणः शिरो देवकोशः समुब्जितः|
(10,2।27च्) तत् प्राणो अभि रक्षति शिरो अन्नम् अथो मनः ||27||

(10,2।28अ) ऊर्ध्वो नु सृष्टा3स् तिर्यङ् नु सृष्टा3स् सर्वा दिशः पुरुष आ बभूवा|
(10,2।28च्) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ||28||

(10,2।29अ) यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम्|
(10,2।29च्) तस्मै ब्रह्म च ब्राह्माश् च चक्षुः प्राणं प्रजां ददुः ||29||

(10,2।30अ) न वै तम् चक्षुर् जहाति न प्राणो जरसः पुरा|
(10,2।30च्) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ||30||

(10,2।31अ) अष्टाचक्रा नवद्वारा देवानां पूर् अयोध्या|
(10,2।31च्) तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ||31||

(10,2।32अ) तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते|
(10,2।32च्) तस्मिन् यद् यक्षम् आत्मन्वत् तद् वै ब्रह्मविदो विदुः ||32||

(10,2।33अ) प्रभ्राजमानां हरिणीं यशसा संपरीवृताम्|
(10,2।33च्) पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ||33|| {6}

(10,3।1अ) अयं मे वरणो मणिः सपत्नक्षयणो वृषा|
(10,3।1च्) तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ||1||

(10,3।2अ) प्रैणान् छृणीहि प्र मृणा रभस्व मणिस् ते अस्तु पुरएता पुरस्तात्|
(10,3।2च्) अवारयन्त वरणेन देवा अभ्याचारम् असुराणां श्वःश्वः ||2||

(10,3।3अ) अयं मणिर् वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः|
(10,3।3च्) स ते शत्रून् अधरान् पादयाति पूर्वस् तान् दभ्नुहि ये त्वा द्विषन्ति ||3||

(10,3।4अ) अयं ते कृत्यां वितताम् पौरुषेयाद् अयं भयात्|
(10,3।4च्) अयं त्वा सर्वस्मात् पापाद् वरणो वारयिष्यते ||4||

(10,3।5अ) वरणो वारयाता अयं देवो वनस्पतिः|
(10,3।5च्) यक्ष्मो यो अस्मिन्न् आविष्टस् तम् उ देवा अवीवरन् ||5||

(10,3।6अ) स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावाद् अजुष्टाम्|
(10,3।6च्) परिक्षवाच् छकुनेः पापवादाद् अयं मणिर् वरणो वारयिष्यते ||6||

(10,3।7अ) अरात्यास् त्वा निरृत्या अभिचाराद् अथो भयात्|
(10,3।7च्) मृत्योर् ओजीयसो वधाद् वरणो वारयिष्यते ||7||

(10,3।8अ) यन् मे माता यन् मे पिता भ्रातरो यच् च मे स्वा यद् एनश् चकृमा वयम्|
(10,3।8च्) ततो नो वारयिष्यते ‘यं देवो वनस्पतिः ||8||

(10,3।9अ) वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः|
(10,3।9च्) असूर्तं रजो अप्य् अगुस् ते यन्त्व् अधमं तमः ||9||

(10,3।10अ) अरिष्टो ‘हम् अरिष्टगुर् आयुष्मान्त् सर्वपूरुषः|
(10,3।10च्) तम् मायं वरणो मणिः परि पातु दिशोदिशः ||10|| {7}

(10,3।11अ) अयं मे वरण उरसि राजा देवो वनस्पतिः|
(10,3।11च्) स मे शत्रून् वि बाधताम् इन्द्रो दस्यून् इवासुरान् ||11||

(10,3।12अ) इमं बिभर्मि वरणम् आयुष्मान् छतशारदः|
(10,3।12च्) स मे राष्ट्रं च क्षत्रं च पशून् ओजश् च मे दधत् ||12||

(10,3।13अ) यथा वातो वनस्पतीन् वृक्षान् भनक्त्य् ओजसा|
(10,3।13च्) एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ||13||

(10,3।14अ) यथा वातश् चाग्निश् च वृक्षान् प्सातो वनस्पतीन्|
(10,3।14च्) एवा सपत्नान् मे प्साहि पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ||14||

(10,3।15अ) यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः|
(10,3।15च्) एवा सपत्नांस् त्वं मम प्र क्षिणीहि न्य् अर्पय|
(10,3।15ए) पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ||15||

(10,3।16अ) तांस् त्वं प्र छिन्द्धि वरण पुरा दिष्टात् पुरायुषः|
(10,3।16च्) य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ||16||

(10,3।17अ) यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम्|
(10,3।17च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।17ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||17||

(10,3।18अ) यथा यशश् चन्द्रमस्य् आदित्ये च नृचक्षसि|
(10,3।18च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।18ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||18||

(10,3।19अ) यथा यशः पृथिव्यां यथास्मिन् जातवेदसि|
(10,3।19च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।19ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||19||

(10,3।20अ) यथा यशः कन्यायां यथास्मिन्त् संभृते रथे|
(10,3।20च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।20ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||20|| {8}

(10,3।21अ) यथा यशः सोमपीथे मधुपर्के यथा यशः|
(10,3।21च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।21ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||21||

(10,3।22अ) यथा यशो ‘ग्निहोत्रे वषट्कारे यथा यशः|
(10,3।22च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।22ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||22||

(10,3।23अ) यथा यशो यजमाने यथास्मिन् यज्ञ आहितम्|
(10,3।23च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।23ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||23||

(10,3।24अ) यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि|
(10,3।24च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।24ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||24||

(10,3।25अ) यथा देवेष्व् अमृतं यथैषु सत्यम् आहितम्|
(10,3।25च्) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु|
(10,3।25ए) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ||25|| {9}

(10,4।1अ) इन्द्रस्य प्रथमो रथो देवानाम् अपरो रथो वरुणस्य तृतीय इत्|
(10,4।1च्) अहीनाम् अपमा रथ स्थानुम् आरद् अथार्षत् ||1||

(10,4।2अ) दर्भः शोचिस् तरूणकम् अश्वस्य वारः परुषस्य वारः|
(10,4।2च्) रथस्य बन्धुरम् ||2||

(10,4।3अ) अव श्वेत पदा जहि पूर्वेण चापरेण च|
(10,4।3च्) उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् उग्रम् ||3||

(10,4।4अ) अरंघुषो निमज्योन्मज पुनर् अब्रवीत्|
(10,4।4च्) उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् उग्रम् ||4||

(10,4।5अ) पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रम् उतासितम्|
(10,4।5च्) पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ||5||

(10,4।6अ) पैद्व प्रेहि प्रथमो ‘नु त्वा वयम् एमसि|
(10,4।6च्) अहीन् व्य् अस्यतात् पथो येन स्मा वयम् एमसि ||6||

(10,4।7अ) इदं पैद्वो अजायतेदम् अस्य परायणम्|
(10,4।7च्) इमान्य् अर्वतः पदाहिघ्न्यो वाजिनीवतः ||7||

(10,4।8अ) संयतं न वि ष्परद् व्यात्तं न सं यमत्|
(10,4।8च्) अस्मिन् क्षेत्रे द्वाव् अही स्त्री च पुमांश् च ताव् उभाव् अरसा ||8||

(10,4।9अ) अरसास इहाहयो ये अन्ति ये च दूरके|
(10,4।9च्) घनेन हन्मि वृश्चिकम् अहिं दण्ढेनागतम् ||9||

(10,4।10अ) अघाश्वस्येदं भेषजम् उभयो स्वजस्य च|
(10,4।10च्) इन्द्रो मे ‘हिम् अघायन्तम् अहिं पैद्वो अरन्धयत् ||10|| {10}

(10,4।11अ) पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः|
(10,4।11च्) इमे पश्चा पृदाकवः प्रदीध्यत आसते ||11||

(10,4।12अ) नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा|
(10,4।12च्) जघानेन्द्रो जघ्निमा वयम् ||12||

(10,4।13अ) हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः|
(10,4।13च्) दर्विं करिक्रतं श्वित्रं दर्भेष्व् असितं जहि ||13||

(10,4।14अ) कैरातिका कुमारिका सका खनति भेषजम्|
(10,4।14च्) हिरण्ययीभिर् अभ्रिभिर् गिरीनाम् उप सानुषु ||14||

(10,4।15अ) आयम् अगन् युवा भिषक् पृश्निहापराजितः|
(10,4।15च्) स वै स्वजस्य जम्भन उभयोर् वृश्चिकस्य च ||15||

(10,4।16अ) इन्द्रो मे ‘हिम् अरन्धयन् मित्रश् च वरुणश् च|
(10,4।16च्) वातापर्जन्योभा ||16||

(10,4।17अ) इन्द्रो मे ‘हिम् अरन्धयत् पृदाकुं च पृदाक्वम्|
(10,4।17च्) स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ||17||

(10,4।18अ) इन्द्रो जघान प्रथमं जनितारम् अहे तव|
(10,4।18च्) तेषाम् उ तृह्यमाणानां कः स्वित् तेषाम् असद् रसः ||18||

(10,4।19अ) सं हि शीर्षाण्य् अग्रभं पौञ्जिष्ठ इव कर्वरम्|
(10,4।19च्) सिन्धोर् मध्यं परेत्य व्य् अनिजम् अहेर् विषम् ||19||

(10,4।20अ) अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः|
(10,4।20च्) हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः ||20|| {11}

(10,4।21अ) ओषधीनाम् अहं वृण उर्वरीर् इव साधुया|
(10,4।21च्) नयाम्य् अर्वतीर् इवाहे निरैतु विषम् ||21||

(10,4।22अ) यद् अग्नौ सूर्ये विषं पृथिव्याम् ओषधीषु यत्|
(10,4।22च्) कान्दाविषं कनक्नकं निरैत्व् अइतु ते विषम् ||22||

(10,4।23अ) ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः|
(10,4।23च्) येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ||23||

(10,4।24अ) तौदी नामासि कन्या घृताची नाम वा असि|
(10,4।24च्) अधस्पदेन ते पदम् आ ददे विषदूषणम् ||24||

(10,4।25अ) अङ्गादङ्गात् प्र च्यावय हृदयम् परि वर्जय|
(10,4।25च्) अधा विषस्य यत् तेजो ‘वाचीनं तद् एतु ते ||25||

(10,4।26अ) आरे अभूद् विषम् अरौद् विषे विषम् अप्राग् अपि|
(10,4।26च्) अग्निर् विषम् अहेर् निर् अधात् सोमो निर् अणयीत्|
(10,4।26ए) दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत ||26|| {12}

(10,5।1अ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ|
(10,5।1च्) जिष्णवे योगाय ब्रह्मयोगैर् वो युनज्मि ||1||

(10,5।2अ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ|
(10,5।2च्) जिष्णवे योगाय क्षत्रयोगैर् वो युनज्मि ||2||

(10,5।3अ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ|
(10,5।3च्) जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि ||3||

(10,5।4अ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ|
(10,5।4च्) जिष्णवे योगाय सोमयोगैर् वो युनज्मि ||4||

(10,5।5अ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ|
(10,5।5च्) जिष्णवे योगायाप्सुयोगैर् वो युनज्मि ||5||

(10,5।6अ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ|
(10,5।6च्) जिष्णवे योगाय विश्वानि मा भूतान्य् उप तिष्ठन्तु युक्ता म आप स्थ ||6||

(10,5।7अ) अग्नेर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।7च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||7||

(10,5।8अ) इन्द्रस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।8च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||8||

(10,5।9अ) सोमस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।9च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||9||

(10,5।10अ) वरुणस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।10च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||10|| {13}

(10,5।11अ) मित्रावरुणयोर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।11च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||11||

(10,5।12अ) यमस्य भाग स्थ अपाम् शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।12च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||12||

(10,5।13अ) पितॄणां भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।13च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||13||

(10,5।14अ) देवस्य सवितुर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त|
(10,5।14च्) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ||14||

(10,5।15अ) यो व आपो ‘पां भागो ‘प्स्व् अन्तर् यजुष्यो देवयजनः|
(10,5।15च्) इदं तम् अति सृजामि तं माभ्यवनिक्षि|
(10,5।15ए) तेन तम् अभ्यतिसृजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।15ग्) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ||15||

(10,5।16अ) यो व आपो ‘पाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यो देवयजनः|
(10,5।16च्) इदं तम् अति सृजामि तं माभ्यवनिक्षि|
(10,5।16ए) तेन तम् अभ्यतिसृजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।16ग्) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ||16||

(10,5।17अ) यो व आपो ‘पाम् वत्सो ‘प्स्व् अन्तर् यजुष्यो देवयजनः|
(10,5।17च्) इदं तम् अति सृजामि तं माभ्यवनिक्षि|
(10,5।17ए) तेन तम् अभ्यतिसृजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।17ग्) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ||17||

(10,5।18अ) यो व आपो ‘पां वृषभो ‘प्स्व् अन्तर् यजुष्यो देवयजनः|
(10,5।18च्) इदं तम् अति सृजामि तं माभ्यवनिक्षि|
(10,5।18ए) तेन तम् अभ्यतिसृजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।18ग्) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ||18||

(10,5।19अ) यो व आपो ‘पां हिरण्यगर्भो ‘प्स्व् अन्तर् यजुष्यो देवयजनः|
(10,5।19च्) इदं तम् अति सृजामि तं माभ्यवनिक्षि|
(10,5।19ए) तेन तम् अभ्यतिसृजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।19ग्) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या||19||

(10,5।20अ) यो व आपो ‘पां अश्मा पृश्निर् दिव्यो ‘प्स्व् अन्तर् यजुष्यो देवयजनः|
(10,5।20च्) इदं तम् अति सृजामि तं माभ्यवनिक्षि|
(10,5।20ए) तेन तम् अभ्यतिसृजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।20ग्) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या||20||

(10,5।21अ) यो व आपो ‘पां अग्नयो ‘प्स्व् अन्तर् यजुष्यो देवयजनः|
(10,5।21च्) इदं तम् अति सृजामि तं माभ्यवनिक्षि|
(10,5।21ए) तेन तम् अभ्यतिसृजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।21ग्) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या||21||

(10,5।22अ) यद् अर्वाचीनं त्रैहायणाद् अनृतं किं चोदिम|
(10,5।22च्) आपो मा तस्मात् सर्वस्माद् दुरितात् पान्त्व् अंहसः ||22||

(10,5।23अ) समुद्रं वः प्र हिणोमि स्वां योनिम् अपीतन|
(10,5।23च्) अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ||23||

(10,5।24अ) अरिप्रा आपो अप रिप्रम् अस्मत्|
(10,5।24च्) प्रास्मद् एनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यम् प्र मलं वहन्तु ||24||

(10,5।25अ) विष्णोः क्रमो ‘सि सपत्नहा पृथिवीसंशितो ‘ग्नितेजाः|
(10,5।25च्) पृथिवीम् अनु वि क्रमे ‘हं पृथिव्यास् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।25ए) स मा जीवीत् तं प्रानो जहातु ||25||

(10,5।26अ) विष्णोः क्रमो ‘सि सपत्नहान्तरिक्षसंशितो वायुतेजाः|
(10,5।26च्) अन्तरिक्षम् अनु वि क्रमे ‘हं अन्तरिक्षात् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।26ए) स मा जीवीत् तं प्रानो जहातु ||26||

(10,5।27अ) विष्णोः क्रमो ‘सि सपत्नहा द्यौसंशितः सूर्यतेजाः|
(10,5।27च्) दिवम् अनु वि क्रमे ‘हं दिवस् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।27ए) स मा जिवीत् तं प्रानो जहातु ||27||

(10,5।28अ) विष्णोः क्रमो ‘सि सपत्नहा दिक्संशितो मनस्तेजाः|
(10,5।28च्) दिशो अनु वि क्रमे ‘हं दिग्भ्यस् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।28ए) स मा जीवीत् तं प्रानो जहातु ||28||

(10,5।29अ) विष्णोः क्रमो ‘सि सपत्नहाशासंशितो वाततेजाः|
(10,5।29च्) आशा अनु वि क्रमे ‘हं आशाभ्यस् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।29ए) स मा जीवीत् तं प्रानो जहातु ||29||

(10,5।30अ) विष्णोः क्रमो ‘सि सपत्नहा ऋक्संशितो सामतेजाः|
(10,5।30च्) ऋचो ‘नु वि क्रमे ‘हं ऋग्भ्यस् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।30ए) स मा जीवीत् तं प्रानो जहातु ||30|| {15}

(10,5।31अ) विष्णोः क्रमो ‘सि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः|
(10,5।31च्) यज्ञम् अनु वि क्रमे ‘हं यज्ञात् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।31ए) स मा जीवीत् तं प्रानो जहातु ||31||

(10,5।32अ) विष्णोः क्रमो ‘सि सपत्नहौषधीसंशितो सोमतेजाः|
(10,5।32च्) ओषधीर् अनु वि क्रमे ‘हं ओषधीभ्यस् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।32ए) स मा जीवीत् तं प्रानो जहातु ||32||

(10,5।33अ) विष्णोः क्रमो ‘सि सपत्नहाप्सुसंशितो वरुणतेजाः|
(10,5।33च्) अपो ‘नु वि क्रमे ‘हं अद्भ्यस् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।33ए) स मा जीवीत् तं प्रानो जहातु ||33||

(10,5।34अ) विष्णोः क्रमो ‘सि सपत्नहा कृषिसंशितो ‘न्नतेजाः|
(10,5।34च्) कृषिम् अनु वि क्रमे ‘हं कृष्यास् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।34ए) स मा जीवीत् तं प्रानो जहातु ||34||

(10,5।35अ) विस्णोः क्रमो ‘सि सपत्नहा प्राणसंशितः पुरुषतेजाः|
(10,5।35च्) प्राणम् अनु वि क्रमे ‘हं प्राणात् तं निर् भजामो यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(10,5।35ए) स मा जीवीत् तं प्रानो जहातु ||35||

(10,5।36अ) जितम् अस्माकम् उद्भिन्नम् अस्माकम् अभ्य् अष्ठां विश्वाः पृतना अरातीः|
(10,5।36च्) इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य वर्चस् तेजः प्राणम् आयुर् नि वेष्टयामीदम् एनम् अधराञ्चं पादयामि ||36||

(10,5।37अ) सूर्यस्यावृतम् अन्वावर्ते दक्षिणाम् अन्व् आवृतम्|
(10,5।37च्) सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ||37||

(10,5।38अ) दिशो ज्योतिष्मतीर् अभ्यावर्ते|
(10,5।38च्) ता मे द्रविणं यछन्तु ता मे ब्राह्मणवर्चसम् ||38||

(10,5।39अ) सप्तऋषीन् अभ्यावर्ते|
(10,5।39च्) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ||39||

(10,5।40अ) ब्रह्माभ्यावर्ते|
(10,5।40च्) तन् मे द्रविणं यछन्तु तन् मे ब्राह्मणवर्चसम् ||40|| {16}

(10,5।41अ) ब्राह्मणां अभ्यावर्ते|
(10,5।41च्) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ||41||

(10,5।42अ) यम् वयं मृगयामहे तं वधै स्तृणवामहै|
(10,5।42च्) व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ||42||

(10,5।43अ) वैश्वानरस्य दंष्ट्राभ्यां हेतिस् तं सम् अधाद् अभि|
(10,5।43च्) इयं तं प्सात्व् आहुतिः समिद् देवी सहीयसी ||43||

(10,5।44अ) राज्ञो वरुणस्य बन्धो ‘सि|
(10,5।44च्) सो ‘मुम् आमुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान ||44||

(10,5।45अ) यत् ते अन्नं भुवस् पत आक्षियति पृथिवीम् अनु|
(10,5।45च्) तस्य नस् त्वं भुवस् पते संप्रयछ प्रजापते ||45||

(10,5।46अ) अपो दिव्या अचायिषं रसेन सम् अपृक्ष्महि|
(10,5।46च्) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ||46||

(10,5।47अ) सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा|
(10,5।47च्) विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ||47||

(10,5।48अ) यद् अग्ने अद्य मिथुना शपतो यद् वाचस् तृष्टं जनयन्त रेभाः|
(10,5।48च्) मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ||48||

(10,5।49अ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि|
(10,5।49च्) परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ||49||

(10,5।50अ) अपाम् अस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान्|
(10,5।50च्) सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ||50|| {17}

(10,6।1अ) अरातीयोर् भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः|
(10,6।1च्) अपि वृश्चाम्य् ओजसा ||1||

(10,6।2अ) वर्म मह्यम् अयं मणिः फालाज् जातः करिष्यति|
(10,6।2च्) पूर्णो मन्थेन मागमद् रसेन सह वर्चसा ||2||

(10,6।3अ) यत् त्वा शिक्वः परावधीत् तक्षा हस्तेन वास्या|
(10,6।3च्) आपस् त्वा तस्मज् जीवलाः पुनन्तु शुचयः शुचिम् ||3||

(10,6।4अ) हिरण्यस्रग् अयं मणिः श्रद्धां यज्ञं महो दधत्|
(10,6।4च्) गृहे वसतु नो ‘तिथिः ||4||

(10,6।5अ) तस्मै घृतं सुरं मध्व् अन्नमन्नम् क्षदामहे|
(10,6।5च्) स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश् चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिर् एत्य ||5||

(10,6।6अ) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं कधिरम् ओजसे|
(10,6।6च्) तम् अग्निः प्रत्य् अमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||6||

(10,6।7अ) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं कधिरम् ओजसे|
(10,6।7च्) तम् इन्द्रः प्रत्य् अमुञ्चतौजसे वीर्याय कम्|
(10,6।7ए) सो अस्मै बलम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||7||

(10,6।8अ) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रम् कधिरम् ओजसे|
(10,6।8च्) तं सोमः प्रत्य् अमुञ्चत महे श्रोत्राय चक्षसे|
(10,6।8ए) सो अस्मै वर्च इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वम् द्विषतो जहि ||8||

(10,6।9अ) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं खदिरम् ओजसे|
(10,6।9च्) तं सूर्यः प्रत्य् अमुञ्चत तेनेमा अजयद् दिशः|
(10,6।9ए) सो अस्मै भूतिम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||9||

(10,6।10अ) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रम् खदिरम् ओजसे|
(10,6।10च्) तम् बिभ्रच् चन्द्रमा मणिम् असुराणां पुरो ‘जयद् दानवानां हिरण्ययीः|
(10,6।10ए) सो अस्मै श्रियम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||10|| {18}

(10,6।11अ) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे|
(10,6।11च्) सो अस्मै वाजिनम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||11||

(10,6।12अ) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे|
(10,6।12च्) तेनेमां मणिना कृषिम् अश्विनाव् अभि रक्षतः|
(10,6।12ए) स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||12||

(10,6।13अ) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे|
(10,6।13च्) तम् बिभ्रत् सविता मणिं तेनेदम् अजयत् स्वः|
(10,6।13ए) सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||13||

(10,6।14अ) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे|
(10,6।14च्) तम् आपो बिभ्रतीर् मणिं सदा धावन्त्य् अक्षिताः|
(10,6।14ए) स आभ्यो ‘मृतम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||14||

(10,6।15अ) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे|
(10,6।15च्) तम् राजा वरुणो मणिं प्रत्य् अमुञ्चत शंभुवम्|
(10,6।15ए) सो अस्मै सत्यम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||15||

(10,6।16अ) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे|
(10,6।16च्) तं देवा बिभ्रतो मणिं सर्वांल् लोकान् युधाजयन्|
(10,6।16ए) स एभ्यो जितिम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||16||

(10,6।17अ) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे|
(10,6।17च्) तम् इमं देवता मणिं प्रत्य् अमुञ्चन्त शम्भुवम्|
(10,6।17ए) स आभ्यो विश्वम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ||17||

(10,6।18अ) ऋतवस् तम् अबध्नतार्तवास् तम् अबध्नत|
(10,6।18च्) संवत्सरस् तं बद्ध्वा सर्वं भूतं वि रक्षति ||18||

(10,6।19अ) अन्तर्देशा अबध्नत प्रदिशस् तम् अबध्नत|
(10,6।19च्) प्रजापतिसृष्टो मणिर् द्विषतो मे ‘धरां अकः ||19||

(10,6।20अ) अथर्वाणो अबध्नताथर्वणा अबध्नत|
(10,6।20च्) तैर् मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस् तेन त्वम् द्विषतो जहि ||20|| {19}

(10,6।21अ) तं धाता प्रत्य् अमुञ्चत स भूतं व्य् अकल्पयत्|
(10,6।21च्) तेन त्वं द्विषतो जहि ||21||

(10,6।22अ) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम्|
(10,6।22च्) स मायं मणिर् आगमद् रसेन सह वर्चसा ||22||

(10,6।23अ) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम्|
(10,6।23च्) स मायं मणिर् आगमत् सह गोभिर् अजाविभिर् अन्नेन प्रजया सह ||23||

(10,6।24अ) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम्|
(10,6।24च्) स मायं मणिर् आगमत् सह व्रीहियवाभ्यां महसा भूत्या सह ||24||

(10,6।25अ) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम्|
(10,6।25च्) स मायं मणिर् आगमन् मधोर् घृतस्य धारया कीलालेन मणिः सह ||25||

(10,6।26अ) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम्|
(10,6।26च्) स मायं मणिर् आगमद् ऊर्जया पयसा सह द्रविणेन श्रिया सह ||26||

(10,6।27अ) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम्|
(10,6।27च्) स मायं मणिर् आगमत् तेजसा त्विष्या सह यशसा कीर्त्या सह ||27||

(10,6।28अ) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम्|
(10,6।28च्) स मायं मणिर् आगमत् सर्वाभिर् भूतिभिः सह ||28||

(10,6।29अ) तम् इमं देवता मणिं मह्यं ददतु पुष्टये|
(10,6।29च्) अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ||29||

(10,6।30अ) ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम्|
(10,6।30च्) असपत्नः सपत्नहा सपत्नान् मे ‘धरां अकः ||30|| {20}

(10,6।31अ) उत्तरं द्विषतो माम् अयं मणिः कृणोतु देवजाः|
(10,6।31च्) यस्य लोका इमे त्रयः पयो दुग्धम् उपासते|
(10,6।31ए) स मायम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ||31||

(10,6।32अ) यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा|
(10,6।32च्) स मायम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ||32||

(10,6।33अ) यथा बीजम् उर्वरायां कृष्टे फालेन रोहति|
(10,6।33च्) एवा मयि प्रजा पशवो ‘न्नमन्नं वि रोहतु ||33||

(10,6।34अ) यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम्|
(10,6।34च्) तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात् ||34||

(10,6।35अ) एतम् इध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः|
(10,6।35च्) तस्मिन् विधेम सुमतिं स्वस्ति प्रजाम् चक्षुः पशून्त् समिद्धे जातवेदसि ब्रह्मणा ||35|| {21}

(10,7।1अ) कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतम् अस्याध्य् आहितम्|
(10,7।1च्) क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यम् अस्य प्रतिष्ठितम् ||1||

(10,7।2अ) कस्माद् अङ्गाद् दीप्यते अग्निर् अस्य कस्माद् अङ्गात् पवते मातरिश्व|
(10,7।2च्) कस्माद् अङ्गाद् वि मिमीते ‘धि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ||2||

(10,7।3अ) कस्मिन्न् अङ्गे तिष्ठति भूमिर् अस्य कस्मिन्न् अङ्गे तिष्ठत्य् अन्तरिक्षम्|
(10,7।3च्) कस्मिन्न् अङ्गे तिष्ठत्य् आहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्य् उत्तरं दिवः ||3||

(10,7।4अ) क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा|
(10,7।4च्) यत्र प्रेप्सन्तीर् अभियन्त्य् आवृतः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||4||

(10,7।5अ) क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः|
(10,7।5च्) यत्र यन्त्य् ऋतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||5||

(10,7।6अ) क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने|
(10,7।6च्) यत्र प्रेप्सन्तीर् अभियन्त्य् आपः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||6||

(10,7।7अ) यस्मिन्त् स्तब्ध्वा प्रजापतिर् लोकान्त् सर्वां अधारयत्|
(10,7।7च्) स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||7||

(10,7।8अ) यत् परमम् अवमम् यच् च मध्यमं प्रजापतिः ससृजे विश्वरूपम्|
(10,7।8च्) कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत् कियत् तद् बभूव ||8||

(10,7।9अ) कियता स्कम्भः प्र विवेश भूतम् कियद् भविष्यद् अन्वाशये ‘स्य|
(10,7।9च्) एकं यद् अङ्गम् अकृणोत् सहस्रधा कियता स्कम्भः प्र विवेश तत्र ||9||

(10,7।10अ) यत्र लोकाम्श् च कोशांश् चापो ब्रह्म जना विदुः|
(10,7।10च्) असच् च यत्र सच् चान्त स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||10|| {22}

(10,7।11अ) यत्र तपः पराक्रम्य व्रतं धारयत्य् उत्तरम्|
(10,7।11च्) ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||11||

(10,7।12अ) यस्मिन् भूमिर् अन्तरिक्षं द्यौर् यस्मिन्न् अध्य् आहिता|
(10,7।12च्) यत्राग्निश् चन्द्रमाः सूर्यो वातस् तिष्ठन्त्य् आर्पिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||12||

(10,7।13अ) यस्य त्रयस्त्रिंशद् देवा अङ्गे सर्वे समाहिताः|
(10,7।13च्) स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||13||

(10,7।14अ) यत्र ऋषयः प्रथमजा ऋचः साम यजुर् मही|
(10,7।14च्) एकर्षिर् यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||14||

(10,7।15अ) यत्रामृतं च मृत्युश् च पुरुषे ‘धि समाहिते|
(10,7।15च्) समुद्रो यस्य नाढ्यः पुरुषे ‘धि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||15||

(10,7।16अ) यस्य चतस्रः प्रदिशो नाढ्यस् तिष्ठन्ति प्रथमाः|
(10,7।16च्) यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||16||

(10,7।17अ) ये पुरुषे ब्रह्म विदुस् ते विदुः परमेष्ठिनम्|
(10,7।17च्) यो वेद परमेष्ठिनं यश् च वेद प्रजापतिम्|
(10,7।17ए) ज्येष्ठं ये ब्राह्मणं विदुस् ते स्कम्भम् अनुसंविदुः ||17||

(10,7।18अ) यस्य शिरो वैश्वानरश् चक्षुर् अङ्गिरसो ‘भवन्|
(10,7।18च्) अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||18||

(10,7।19अ) यस्य ब्रह्म मुखम् आहुर् जिह्वां मधुकशाम् उत|
(10,7।19च्) विराजम् ऊधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||19||

(10,7।20अ) यस्माद् ऋचो अपातक्षन् यजुर् यस्माद् अपाकषन्|
(10,7।20च्) सामानि यस्य लोमान्य् अथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||20|| {23}

(10,7।21अ) असच्चाखां प्रतिष्ठन्तीं परमम् इव जना विदुः|
(10,7।21च्) उतो सन् मन्यन्ते ‘वरे ये ते शाखाम् उपासते ||21||

(10,7।22अ) यत्रादित्याश् च रुद्राश् च वसवश् च समाहिताः|
(10,7।22च्) भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||22||

(10,7।23अ) यस्य त्रयस्त्रिंशद् देवा निधिं रक्षन्ति सर्वदा|
(10,7।23च्) निधिं तम् अद्य को वेद यं देवा अभिरक्षथ ||23||

(10,7।24अ) यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठम् उपासते|
(10,7।24च्) यो वै तान् विद्यात् प्रत्यक्षं स ब्रह्मा वेदिता स्यात् ||24||

(10,7।25अ) बृहन्तो नाम ते देवा ये ‘सतः परि जज्ञिरे|
(10,7।25च्) एकं तद् अङ्गं स्कम्भस्यासद् आहुः परो जनाः ||25||

(10,7।26अ) यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्|
(10,7।26च्) एकं तद् अङ्गं स्कम्भस्य पुराणम् अनुसंविदुः ||26||

(10,7।27अ) यस्य त्रयस्त्रिंशद् देवा अङ्गे गात्रा विभेजिरे|
(10,7।27च्) तान् वै त्रयस्त्रिंशद् देवान् एके ब्रहम्विदो विदुः ||27||

(10,7।28अ) हिरण्यगर्भम् परमम् अनत्युद्यं जना विदुः|
(10,7।28च्) स्कम्भस् तद् अग्रे प्रासिञ्चद् धिरण्यं लोके अन्तरा ||28||

(10,7।29अ) स्कम्भे लोकाः स्कम्भे तपः स्कम्भे ‘ध्य् ऋतम् आहितम्|
(10,7।29च्) स्कम्भ त्वा वेद प्रत्यक्षम् इन्द्रे सर्वं समाहितम् ||29||

(10,7।30अ) इन्द्रे लोका इन्द्रे तप इन्द्रे ‘ध्य् ऋतम् आहितम्|
(10,7।30च्) इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ||30|| {24}

(10,7।31अ) नाम नाम्ना जोहवीति पुरा सूर्यात् पुरोषसः|
(10,7।31च्) यद् अजः प्रथमं संबभूव स ह तत् स्वराज्यम् इयाय यस्मान् नान्यत् परम् अस्ति भूतम् ||31||

(10,7।32अ) यस्य भूमिः प्रमान्तरिक्षम् उतोदरम्|
(10,7।32च्) दिवं यश् चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ||32||

(10,7।33अ) यस्य सूर्यश् चक्षुश् चन्द्रमाश् च पुनर्णवः|
(10,7।33च्) अग्निं यश् चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ||33||

(10,7।34अ) यस्य वातः प्राणापानौ चक्षुर् अङ्गिरसो ‘भवन्|
(10,7।34च्) दिशो यश् चक्रे प्रज्ञानीस् तस्मै ज्येष्ठाय ब्रह्मणे नमः ||34||

(10,7।35अ) स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्व् अन्तरिक्षम्|
(10,7।35च्) स्कम्भो दाधार प्रदिशः षढ् उर्वीः स्कम्भ इदं विश्वं भुवनम् आ विवेश ||35||

(10,7।36अ) यः श्रमात् तपसो जातो लोकान्त् सर्वान्त् समानशे|
(10,7।36च्) सोमं यश् चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ||36||

(10,7।37अ) कथं वातो नेलयति कथं न रमते मनः|
(10,7।37च्) किम् आपः सत्यं प्रेप्सन्तीर् नेलयन्ति कदा चन ||37||

(10,7।38अ) महद् यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे|
(10,7।38च्) तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ||38||

(10,7।39अ) यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा|
(10,7।39च्) यस्मै देवाः सदा बलिं प्रयछन्ति विमिते ‘मितं स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ||39||

(10,7।40अ) अप तस्य हतं तमो व्यावृत्तः स पाप्मना|
(10,7।40च्) सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ||40||

(10,7।41अ) यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद|
(10,7।41च्) स वै गुह्यः प्रजापतिः ||41||

(10,7।42अ) तन्त्रम् एके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम्|
(10,7।42च्) प्रान्या तन्तूंस् तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ||42||

(10,7।43अ) तयोर् अहं परिनृत्यन्त्योर् इव न वि जानामि यतरा परस्तात्|
(10,7।43च्) पुमान् एनद् वयत्य् उद् गृणन्ति पुमान् एनद् वि जभाराधि नाके ||43||

(10,7।44अ) इमे मयूखा उप तस्तभुर् दिवं सामानि चक्रुस् तसराणि वातवे ||44|| {25}

(10,8।1अ) यो भूतं च भव्यं च सर्वं यश् चाधितिष्ठति|
(10,8।1च्) स्व् अर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ||1||

(10,8।2अ) स्कम्भेनेमे विष्टभिते द्यौश् च भूमिश् च तिष्ठतः|
(10,8।2च्) स्कम्भ इदं सर्वम् आत्मन्वद् यत् प्राणन् निमिषच् च यत् ||2||

(10,8।3अ) तिस्रो ह प्रजा अत्यायम् आयन् न्य् अन्या अर्कम् अभितो ‘विशन्त|
(10,8।3च्) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीर् आ विवेश ||3||

(10,8।4अ) द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत|
(10,8।4च्) तत्राहतास् त्रीणि शतानि शङ्कवः षष्टिश् च खीला अविचाचला ये ||4||

(10,8।5अ) इदं सवितर् वि जानीहि षढ् यमा एक एकजः|
(10,8।5च्) तस्मिन् हापित्वम् इछन्ते य एषाम् एक एकजः ||5||

(10,8।6अ) आविः सन् निहितं गुहा जरन् नाम महत् पदम्|
(10,8।6च्) तत्रेदं सर्वम् आर्पितम् एजत् प्राणत् प्रतिष्ठितम् ||6||

(10,8।7अ) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा|
(10,8।7च्) अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं क्व तद् बभूव ||7||

(10,8।8अ) पञ्चवाही वहत्यग्रम् एषां प्रष्टयो युक्ता अनुसंवहन्ति|
(10,8।8च्) अयातम् अस्य ददृशे न यातं परं नेदीयो ‘वरं दवीयः ||8||

(10,8।9अ) तिर्यग्बिलश् चमस ऊर्ध्वबुध्नस् तस्मिन् यशो निहितं विश्वरूपम्|
(10,8।9च्) तद् आसत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ||9||

(10,8।10अ) या पुरस्ताद् युज्यते या च पश्चाद् या विश्वतो युज्यते या च सर्वतः|
(10,8।10च्) यया यज्ञः प्राङ् तायते तां त्वा पृछामि कतमा सा ऋचाम् ||10|| {26}

(10,8।11अ) यद् एजति पतति यच् च तिष्ठति प्राणद् अप्राणन् निमिषच् च यद् भुवत्|
(10,8।11च्) तद् दाधार पृथिवीं विश्वरूपं तत् संभूय भवत्य् एकम् एव ||11||

(10,8।12अ) अनन्तं विततं पुरुत्रानन्तम् अन्तवच् चा समन्ते|
(10,8।12च्) ते नाकपालश् चरति विचिन्वन् विद्वान् भूतम् उत भव्यम् अस्य ||12||

(10,8।13अ) प्रजापतिश् चरति गर्भे अन्तर् अदृश्यमानो बहुधा वि जायते|
(10,8।13च्) अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं कतमः स केतुः ||13||

(10,8।14अ) ऊर्ध्वं भरन्तम् उदकं कुम्भेनेवोदहार्यम्|
(10,8।14च्) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ||14||

(10,8।15अ) दूरे पूर्णेन वसति दूर ऊनेन हीयते|
(10,8।15च्) महद् यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ||15||

(10,8।16अ) यतः सूर्यः उदेत्य् अस्तं यत्र च गछति|
(10,8।16च्) तद् एव मन्ये ‘हं ज्येष्ठं तद् उ नात्य् एति किं चन ||16||

(10,8।17अ) ये अर्वाङ् मध्य उत वा पुराणं वेदं विद्वांसम् अभितो वदन्ति|
(10,8।17च्) आदित्यम् एव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ||17||

(10,8।18अ) सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पततः स्वर्गम्|
(10,8।18च्) स देवान्त् सर्वान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा ||18||

(10,8।19अ) सत्येनोर्ध्वस् तपति ब्रह्मणार्वाङ् वि पश्यति|
(10,8।19च्) प्राणेन तिर्यङ् प्राणति यस्मिन् ज्येष्ठम् अधि श्रितम् ||19||

(10,8।20अ) यो वै ते विद्याद् अरणी याभ्यां निर्मथ्यते वसु|
(10,8।20च्) स विद्वान् ज्येष्ठं मन्येत स विद्याद् ब्राह्मणं महत् ||20|| {27}

(10,8।21अ) अपाद् अग्रे सम् अभवत् सो अग्रे स्वर् आभरत्|
(10,8।21च्) चतुष्पाद् भूत्वा भोग्यः सर्वम् आदत्त भोजनम् ||21||

(10,8।22अ) भोग्यो भवद् अथो अन्नम् अदद् बहु|
(10,8।22च्) यो देवम् उत्तरावन्तम् उपासातै सनातनम् ||22||

(10,8।23अ) सनातनम् एनम् आहुर् उताद्य स्यात् पुनर्णवः|
(10,8।23च्) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ||23||

(10,8।24अ) शतं सहस्रम् अयुतं न्यर्बुदम् असंख्येयं स्वम् अस्मिन् निविष्टम्|
(10,8।24च्) तद् अस्य घ्नन्त्य् अभिपश्यत एव तस्माद् देवो रोचत् एष एतत् ||24||

(10,8।25अ) बालाद् एकम् अणीयस्कम् उतैकं नेव दृश्यते|
(10,8।25च्) ततः परिष्वजीयसी देवता सा मम प्रिया ||25||

(10,8।26अ) इयं कल्याण्य् अजरा मर्त्यस्यामृता गृहे|
(10,8।26च्) यस्मै कृता शये स यश् चकार जजार सः ||26||

(10,8।27अ) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी|
(10,8।27ब्) त्वं जीर्णो दण्ढेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ||27||

(10,8।28अ) उतैषां पितोत वा पुत्र एषाम् उतैषां ज्येष्ठ उत वा कनिष्ठः|
(10,8।28च्) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ||28||

(10,8।29अ) पूर्णात् पूर्णम् उद् अचति पूर्णं पूर्णेन सिच्यते|
(10,8।29च्) उतो तद् अद्य विद्याम यतस् तत् परिषिच्यते ||29||

(10,8।30अ) एषा सनत्नी सनम् एव जातैषा पुराणी परि सर्वं बभूव|
(10,8।30च्) मही देव्य् उषसो विभाती सैकेनैकेन मिषता वि चष्टे ||30|| {28}

(10,8।31अ) अविर् वै नाम देवतर्तेनास्ते परीवृता|
(10,8।31च्) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ||31||

(10,8।32अ) अन्ति सन्तं न जहात्य् अन्ति सन्तं न पश्यति|
(10,8।32च्) देवस्य पश्य काव्यं न ममार न जीर्यति ||32||

(10,8।33अ) अपूर्वेणेषिता वाचस् ता वदन्ति यथायथम्|
(10,8।33च्) वदन्तीर् यत्र गछन्ति तद् आहुर् ब्राह्मणं महत् ||33||

(10,8।34अ) यत्र देवाश् च मनुष्याश् चारा नाभाव् इव श्रिताः|
(10,8।34च्) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ||34||

(10,8।35अ) येभिर् वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः|
(10,8।35च्) य आहुतिम् अत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ||35||

(10,8।36अ) इमाम् एषां पृथिवीं वस्त एको ‘न्तरिक्षं पर्य् एको बभूव|
(10,8।36च्) दिवम् एषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्य् एके ||36||

(10,8।37अ) यो विद्यात् सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः|
(10,8।37च्) सूत्रं सूत्रस्य यो विद्याद् स विद्याद् ब्राह्मणं महत् ||37||

(10,8।38अ) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः|
(10,8।38च्) सूत्रं सूत्रस्याहं वेदाथो यद् ब्राह्मणं महद् ||38||

(10,8।39अ) यद् अन्तरा द्यावापृथिवी अग्निर् अइत् प्रदहन् विश्वदाव्यः|
(10,8।39च्) यत्रातिष्ठन्न् एकपत्नीः परस्तात् क्वेवासीन् मातरिश्वा तदानीम् ||39||

(10,8।40अ) अप्स्व् आसीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्य् आसन्|
(10,8।40ब्) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ||40||

(10,8।41अ) उत्तरेणेव गयत्रीम् अमृते ‘धि वि चक्रमे|
(10,8।41च्) साम्ना ये साम संविदुर् अजस् तद् ददृशे क्व ||41||

(10,8।42अ) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा|
(10,8।42च्) इन्द्रो न तस्थौ समरे धनानाम् ||42||

(10,8।43अ) पुण्ढरीकं नवद्वारं त्रिभिर् गुणेभिर् आवृतम्|
(10,8।43च्) तस्मिन् यद् यक्षम् आत्मन्वत् तद् वै ब्रह्मविदो विदुः ||43||

(10,8।44अ) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश् चनोनः|
(10,8।44च्) तम् एव विद्वान् न बिभाय मृत्योर् आत्मानं धीरम् अजरं युवानम् ||44|| {29}

(10,9।1अ) अघायताम् अपि नह्या मुखानि सपत्नेषु वज्रम् अर्पयैतम्|
(10,9।1च्) इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ||1||

(10,9।2अ) वेदिष् टे चर्म भवतु बर्हिर् लोमानि यानि ते|
(10,9।2च्) एषा त्वा रशनाग्रभीद् ग्रावा त्वैषो ‘धि नृत्यतु ||2||

(10,9।3अ) बालास् ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये |
(10,9।3च्) शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ||3||

(10,9।4अ) यः शतौदनां पचति कामप्रेण स कल्पते|
(10,9।4च्) प्रीता ह्य् अस्य ऋत्विजः सर्वे यन्ति यथायथम् ||4||

(10,9।5अ) स स्वर्गम् आ रोहति यत्रादस् त्रिदिवं दिवः|
(10,9।5च्) अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ||5||

(10,9।6अ) स तांल् लोकान्त् सम् आप्नोति ये दिव्या ये च पार्थिवाः|
(10,9।6च्) हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ||6||

(10,9।7अ) ये ते देवि शमितारः पक्तारो ये च ते जनाः|
(10,9।7च्) ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ||7||

(10,9।8अ) वसवस् त्वा दक्षिणत उत्तरान् मरुतस् त्वा|
(10,9।8च्) आदित्याः पश्चाद् गोप्स्यन्ति साग्निष्टोमम् अति द्रव ||8||

(10,9।9अ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश् च ये|
(10,9।9च्) ते त्वा सर्वे गोप्स्यन्ति सातिरात्रम् अति द्रव ||9||

(10,9।10अ) अन्तरिक्षं दिवं भूमिम् आदित्यान् मरुतो दिशः|
(10,9।10च्) लोकान्त् स सर्वान् आप्नोति यो ददाति शतौदनाम् ||10|| {30}

(10,9।11अ) घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति|
(10,9।11च्) पक्तारम् अघ्न्ये मा हिंसीर् दिवं प्रेहि शतौदने ||11||

(10,9।12अ) ये देवा दिविषदो अन्तरिक्षसदश् च ये ये चेमे भूम्याम् अधि|
(10,9।12च्) तेभ्यस् त्वं धुक्ष्व सर्वदा क्षीरं सर्पिर् अथो मधु ||12||

(10,9।13अ) यत् ते शिरो यत् ते मुखं यौ कर्णौ ये च ते हनू|
(10,9।13च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||13||

(10,9।14अ) यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च ते ‘क्षिणी|
(10,9।14च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||14||

(10,9।15अ) यत् ते क्लोमा यद् धृदयं पुरीतत् सहकण्ठिका|
(10,9।15च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||15||

(10,9।16अ) यत् ते यकृद् ये मतस्ने यद् आन्त्रम् याश् च ते गुदाः|
(10,9।16च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||16||

(10,9।17अ) यस् ते प्लाशिर् यो वनिष्ठुर् यौ कुक्षी यच् च चर्म ते|
(10,9।17च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||17||

(10,9।18अ) यत् ते मज्जा यद् अस्थि यन् मंसं यच् च लोहितम्|
(10,9।18च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||18||

(10,9।19अ) यौ ते बाहू ये दोषणी याव् अंसौ या च ते ककुत्|
(10,9।19च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||19||

(10,9।20अ) यास् ते ग्रीवा ये स्कन्धा याः पृष्टीर् याश् च पर्शवः|
(10,9।20च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||20|| {31}

(10,9।21अ) यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्|
(10,9।21च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||21||

(10,9।22अ) यत् ते पुछं ये ते बाला यद् ऊधो ये च ते स्तनाः|
(10,9।22च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||22||

(10,9।23अ) यास् ते जङ्घाः याः कुष्ठिका ऋछरा ये च ते शफाः|
(10,9।23च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||23||

(10,9।24अ) यत् ते चर्म शतौदने यानि लोमान्य् अघ्न्ये|
(10,9।24च्) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ||24||

(10,9।25अ) क्रोढौ ते स्तां पुरोदाशाव् आज्येनाभिघारितौ|
(10,9।25च्) तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ||25||

(10,9।26अ) उलूखले मुसले यश् च चर्मणि यो वा शूर्पे तण्ढुलः कणः|
(10,9।26च्) यं वा वातो मातरिश्वा पवमानो ममाथाग्निष् टद् धोता सुहुतं कृणोतु ||26||

(10,9।27अ) अपो देवीर् मधुमतीर् घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि|
(10,9।27च्) यत्काम इदम् अभिषिञ्चामि वो ‘हं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ||27|| {32}

(10,10।1अ) नमस् ते जायमानायै जाताया उत ते नमः|
(10,10।1च्) बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ||1||

(10,10।2अ) यो विद्यात् सप्त प्रवतः सप्त विद्यात् परावतः|
(10,10।2च्) शिरो यज्ञस्य यो विद्यात् स वशां प्रति गृह्णीयात् ||2||

(10,10।3अ) वेदाहं सप्त प्रवतः सप्त वेद परावतः|
(10,10।3च्) शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ||3||

(10,10।4अ) यया द्यौर् यया पृथिवी ययापो गुपिता इमाः|
(10,10।4च्) वशां सहस्रधारां ब्रह्मणाछावदामसि ||4||

(10,10।5अ) शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः|
(10,10।5च्) ये देवास् तस्यां प्राणन्ति ते वशां विदुर् एकधा ||5||

(10,10।6अ) यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका|
(10,10।6च्) वशा पर्जन्यपत्नी देवां अप्य् एति ब्रह्मणा ||6||

(10,10।7अ) अनु त्वाग्निः प्राविशद् अनु सोमो वशे त्वा|
(10,10।7च्) ऊधस् ते भद्रे पर्जन्यो विद्युतस् ते स्तना वशे ||7||

(10,10।8अ) अपस् त्वं धुक्षे प्रथमा उर्वरा अपरा वशे|
(10,10।8च्) तृतीयं राष्ट्रं धुक्षे ‘न्नं क्षीरं वशे त्वम् ||8||

(10,10।9अ) यद् आदित्यैर् हूयमानोपातिष्ठ ऋतवरि|
(10,10।9च्) इन्द्रः सहस्रं पात्रान्त् सोमं त्वापाययद् वशे ||9||

(10,10।10अ) यद् अनूचीन्द्रम् अइर् आत् त्वा ऋषभो ‘ह्वयत्|
(10,10।10च्) तस्मात् ते वृत्रहा पयः क्षीरं क्रुद्धो ‘हरद् वशे ||10|| {33}

(10,10।11अ) यत् ते क्रुद्धो धनपतिर् आ क्षीरम् अहरद् वशे|
(10,10।11च्) इदं तद् अद्य नाकस् त्रिषु पात्रेषु रक्षति ||11||

(10,10।12अ) त्रिषु पात्रेषु तं सोमम् आ देव्य् अहरद् वशा|
(10,10।12च्) अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये ||12||

(10,10।13अ) सं हि सोमेनागत सम् उ सर्वेण पद्वता|
(10,10।13च्) वशा समुद्रम् अध्य् अष्ठद् गन्धर्वैः कलिभिः सह ||13||

(10,10।14अ) सं हि वातेनागत सम् उ सर्वैः पतत्रिभिः|
(10,10।14च्) वशा समुद्रे प्रानृत्यद् ऋचः सामानि बिभ्रती ||14||

(10,10।15अ) सं हि सूर्येणागत सम् उ सर्वेण चक्षुषा|
(10,10।15च्) वशा समुद्रम् अत्य् अख्यद् भद्रा ज्योतींषि बिभ्रती ||15||

(10,10।16अ) अभीवृता हिरण्येन यद् अतिष्ठ ऋतावरि|
(10,10।16च्) अश्वः समुद्रो भूत्वाध्य् अस्कन्दद् वशे त्वा ||16||

(10,10।17अ) तद् भद्राः सम् अगछन्त वशा देष्ट्र्य् अथो स्वधा|
(10,10।17च्) अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये ||17||

(10,10।18अ) वशा माता राजन्यस्य वशा माता स्वधे तव|
(10,10।18च्) वशाया यज्ञ आयुधं ततश् चित्तम् अजायत ||18||

(10,10।19अ) ऊर्ध्वो बिन्दुर् उद् अचरद् ब्रह्मणः ककुदाद् अधि|
(10,10।19च्) ततस् त्वं जज्ञिषे वशे ततो होताजायत ||19||

(10,10।20अ) आस्नस् ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे|
(10,10।20च्) पाजस्याज् जज्ञे यज्ञ स्तनेभ्यो रश्मयस् तव ||20|| {34}

(10,10।21अ) ईर्माभ्याम् अयनं जातं सक्थिभ्यां च वशे तव|
(10,10।21च्) आन्त्रेभ्यो जज्ञिरे अत्रा उदराद् अधि वीरुधः ||21||

(10,10।22अ) यद् उदरं वरुणस्यानुप्राविशथा वशे|
(10,10।22च्) ततस् त्वा ब्रह्मोद् अह्वयत् स हि नेत्रम् अवेत् तव ||22||

(10,10।23अ) सर्वे गर्भाद् अवेपन्त जायमानाद् असूस्वः|
(10,10।23च्) ससूव हि ताम् आहु वशेति ब्रह्मभिः कॢप्तः स ह्य् अस्या बन्धुः ||23||

(10,10।24अ) युध एकः सं सृजति यो अस्या एक इद् वशी|
(10,10।24च्) तरांसि यज्ञा अभवन् तरसां चक्षुर् अभवद् वशा ||24||

(10,10।25अ) वशा यज्ञं प्रत्य् अगृह्णाद् वशा सूर्यम् अधारयत्|
(10,10।25च्) वशायाम् अन्तर् अविशद् ओदनो ब्रह्मणा सह ||25||

(10,10।26अ) वशाम् एवामृतम् आहुर् वशां मृत्युम् उपासते|
(10,10।26च्) वशेदं सर्वम् अभवद् देवा मनुष्या असुराः पितर ऋषयः ||26||

(10,10।27अ) य एवं विद्यात् स वशां प्रति गृह्णीयात्|
(10,10।27च्) तथा हि यज्ञः सर्वपाद् दुहे दात्रे ‘नपस्फुरन् ||27||

(10,10।28अ) तिस्रो जिह्वा वरुणस्यान्तर् दीद्यत्य् आसनि|
(10,10।28च्) तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ||28||

(10,10।29अ) चतुर्धा रेतो अभवद् वशायाः|
(10,10।29च्) आपस् तुरीयम् अमृतं तुरीयं यज्ञस् तुरीयं पशवस् तुरीयम् ||29||

(10,10।30अ) वशा द्यौर् वशा पृथिवी वशा विष्णुः प्रजापतिः|
(10,10।30च्) वशाया दुग्धम् अपिबन्त् साध्या वसवश् च ये ||30||

(10,10।31अ) वशाया दुग्धं पीत्वा साध्या वसवश् च ये|
(10,10।31च्) ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ||31||

(10,10।32अ) सोमम् एनाम् एके दुह्रे घृतम् एक उपासते|
(10,10।32च्) य एवं विदुषे वशां ददुस् ते गतास् त्रिदिवं दिवः ||32||

(10,10।33अ) ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल् लोकान्त् सम् अश्नुते|
(10,10।33च्) ऋतं ह्य् अस्याम् आर्पितम् अपि ब्रह्माथो तपः ||33||

(10,10।34अ) वशां देवा उप जीवन्ति वशां मनुष्या उत|
(10,10।34च्) वशेदं सर्वम् अभवद् यावत् सूर्यो विपश्यति ||34|| {35}

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>