अथर्ववेद काण्ड 02

(2,1।1अ) वेनस् तत् पश्यत् परमं गुहा यद् यत्र विश्वं भवत्य् एकरूपम्|
(2,1।1च्) इदं पृश्निर् अदुहज् जायमानाः स्वर्विदो अभ्य् अनूषत व्राः ||1||

(2,1।2अ) प्र तद् वोचेद् अमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्|
(2,1।2च्) त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुष् पितासत् ||2||

(2,1।3अ) स नः पिता जनिता स उत बन्धुर् धामानि वेद भुवनानि विश्वा|
(2,1।3च्) यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ||3||

(2,1।4अ) परि द्यावापृथिवी सद्य आयम् उपातिष्ठे प्रथमजाम् ऋतस्य|
(2,1।4च्) वाचम् इव वक्तरि भुवनेष्ठा धास्युर् एष नन्व् एषो अग्निः ||4||

(2,1।5अ) परि विश्वा भुवनान्य् आयम् ऋतस्य तन्तुं विततं दृशे कम्|
(2,1।5च्) यत्र देवा अमृतम् आनशानाः समाने योनाव् अध्य् अइरयन्त ||5||

(2,2।1अ) दिव्यो गन्धर्वो भुवनस्य यस् पतिर् एक एव नमस्यो विक्ष्व् ईढ्यः|
(2,2।1च्) तं त्वा यौमि ब्रह्मणा दिव्य देव नमस् ते अस्तु दिवि ते सधस्थम् ||1||

(2,2।2अ) दिवि स्पृष्टो यजतः सूर्यत्वग् अवयाता हरसो दैव्यस्य|
(2,2।2च्) मृढात् गन्धर्वो भुवनस्य यस् पतिर् एक एव नमस्यः सुशेवाः ||2||

(2,2।3अ) अनवद्याभिः सम् उ जग्म आभिर् अप्सरास्व् अपि गन्धर्व आसीत्|
(2,2।3च्) समुद्र आसां सदनं म आहुर् यतः सद्य आ च परा च यन्ति ||3||

(2,2।4अ) अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे|
(2,2।4च्) ताभ्यो वो देवीर् नम इत् कृणोमि ||4||

(2,2।5अ) याः क्लन्दास् तमिषीचयो ‘क्षकामा मनोमुहः|
(2,2।5च्) ताभ्यो गन्धर्वभ्यो ‘प्सराभ्यो ‘करम् नमः ||5||

(2,3।1अ) अदो यद् अवधावत्य् अवत्कम् अधि पर्वतात्|
(2,3।1च्) तत् ते कृणोमि भेषजं सुभेषजं यथाससि ||1||

(2,3।2अ) आद् अङ्गा कुविद् अङ्ग शतं या भेषजानि ते|
(2,3।2च्) तेषाम् असि त्वम् उत्तमम् अनास्रावम् अरोगणम् ||2||

(2,3।3अ) नीचैः खनन्त्य् असुरा अरुस्राणम् इदं महत्|
(2,3।3च्) तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत् ||3||

(2,3।4अ) उपजीका उद् भरन्ति समुद्राद् अधि भेषजम्|
(2,3।4च्) तद् आस्रावस्य भेषजं तद् उ रोगम् अशीशमत् ||4||

(2,3।5अ) अरुस्राणम् इदं महत् पृथिव्या अध्य् उद्भृतम्|
(2,3।5च्) तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत् ||5||

(2,3।6अ) शं नो भवन्त्व् अप ओषधयः शिवाः|
(2,3।6च्) इन्द्रस्य वज्रो अप हन्तु रक्षस आराद् विसृष्टा इषवः पतन्तु रक्षसाम् ||6||

(2,4।1अ) दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव|
(2,4।1च्) मणिं विष्कन्धदूषणं जङ्गिढं बिभृमो वयम् ||1||

(2,4।2अ) जङ्गिढो जम्भाद् विशराद् विष्कन्धाद् अभिशोचनात्|
(2,4।2च्) मणिः सहस्रवीर्यः परि णः पातु विश्वतः ||2||

(2,4।3अ) अयं विष्कन्धं सहते ‘यं बाधते अत्त्रिणः|
(2,4।3च्) अयं नो विश्वभेषजो जङ्गिढः पात्व् अंहसः ||3||

(2,4।4अ) देवैर् दत्तेन मणिना जङ्गिढेन मयोभुवा|
(2,4।4च्) विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ||4||

(2,4।5अ) शणश् च मा जङ्गिढश् च विष्कन्धाद् अभि रक्षताम्|
(2,4।5च्) अरण्याद् अन्य आभृतः कृष्या अन्यो रसेभ्यः ||5||

(2,4।6अ) कृत्यादूषिर् अयं मणिर् अथो अरातिदूषिः|
(2,4।6च्) अथो सहस्वान् जङ्गिढः प्र ण आयुंषि तारिषत् ||6||

(2,5।1अ) इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम्|
(2,5।1च्) पिबा सुतस्य मतेर् इह मधोश् चकानश् चारुर् मदाय ||1||

(2,5।2अ) इन्द्र जठरं नव्यो न पृणस्व मधोर् दिवो न|
(2,5।2च्) अस्य सुतस्य स्वर् णोप त्वा मदाः सुवाचो अगुः ||2||

(2,5।3अ) इन्द्रस् तुराषाण् मित्रो वृत्रं यो जघान यतीर् न|
(2,5।3च्) बिभेद वलं भृगुर् न ससहे शत्रून् मदे सोमस्य ||3||

(2,5।4अ) आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विढ्डि शक्र धियेह्य् आ नः|
(2,5।4च्) श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर् मत्स्वेह महे रणाय ||4||

(2,5।5अ) इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री|
(2,5।5च्) अहन्न् अहिम् अनु अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ||5||

(2,5।6अ) अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष|
(2,5।6च्) वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ||6||

(2,5।7अ) वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत् सुतस्य|
(2,5।7च्) आ सायकं मघवादत्त वज्रम् अहन्न् एनं प्रथमजाम् अहीनाम् ||7||

(2,6।1अ) समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या।
(2,6।1च्) सं दिव्येन दीदिहि रोचनेन विश्वा आ माहि प्रदिशश् चतस्रः ||1||

(2,6।2अ) सं चेध्यस्वाग्ने प्र च वर्धयेमम् उच् च तिष्ठ महते सौभगाय|
(2,6।2च्) मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस् ते यशसः सन्तु मान्ये ||2||

(2,6।3अ) त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः|
(2,6।3च्) सपत्नहाग्ने अभिमातिजिद् भव स्वे गये जागृह्य् अप्रयुछन् ||3||

(2,6।4अ) क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व|
(2,6।4च्) सजातानां मध्यमेष्ठा राज्ञाम् अग्ने विहव्यो दीदिहीह ||4||

(2,6।5अ) अति निहो अति सृधो ‘त्य् अचित्तीर् अति द्विषः|
(2,6।5च्) विश्वा ह्य् अग्ने दुरिता तर त्वम् अथास्मभ्यं सहवीरं रयिं दाः ||5||

(2,7।1अ) अघद्विष्टा देवजाता वीरुच् छपथयोपनी|
(2,7।1च्) आपो मलम् इव प्राणैक्षीत् सर्वान् मच् छपथां अधि ||1||

(2,7।2अ) यश् च सापत्नः शपथो जाम्याः शपथश् च यः|
(2,7।2च्) ब्रह्मा यन् मन्युतः शपात् सर्वं तन् नो अधस्पदम् ||2||

(2,7।3अ) दिवो मूलम् अवततं पृथिव्या अध्य् उत्ततम्|
(2,7।3च्) तेन सहस्रकाण्ढेन परि णः पाहि विश्वतः ||3||

(2,7।4अ) परि मां परि मे प्रजां परि णः पाहि यद् धनम्|
(2,7।4च्) अरातिर् नो मा तारीन् मा नस् तारिशुर् अभिमातयः ||4||

(2,7।5अ) शप्तारम् एतु शपथो यः सुहार्त् तेन नः सह|
(2,7।5च्) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीर् अपि शृणीमसि ||5||

(2,8।1अ) उद् अगातां भगवती विचृतौ नाम तारके|
(2,8।1च्) वि क्षेत्रियस्य मुञ्चताम् अधमं पाशम् उत्तमम् ||1||

(2,8।2अ) अपेयं रात्र्य् उछत्व् अपोछन्त्व् अभिकृत्वरीः|
(2,8।2च्) वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ||2||

(2,8।3अ) बभ्रोर् अर्जुनकाण्ढस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या|
(2,8।3च्) वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ||3||

(2,8।4अ) नमस् ते लाङ्गलेभ्यो नम ईषायुगेभ्यः|
(2,8।4च्) वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ||4||

(2,8।5अ) नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः|
(2,8।5च्) नमः क्षेत्रस्य पतये वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ||5||

(2,9।1अ) दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु|
(2,9।1च्) अथो एनम् वनस्पते जीवानां लोकम् उन् नय ||1||

(2,9।2अ) आगाद् उद् अगाद् अयं जीवानां व्रातम् अप्य् अगात्|
(2,9।2च्) अभूद् उ पुत्राणां पिता नृणां च भगवत्तमः ||2||

(2,9।3अ) अधीतीर् अध्य् अगाद् अयम् अधि जीवपुरा अगान्|
(2,9।3च्) शतं ह्य् अस्य भिषजः सहस्रम् उत वीरुधः ||3||

(2,9।4अ) देवास् ते चीतिम् अविदन् ब्रह्माण उत वीरुधः|
(2,9।4च्) चीतिं ते विश्वे देवा अविदन् भूम्याम् अधि ||4||

(2,9।5अ) यश् चकार स निष् करत् स एव सुभिषक्तमः|
(2,9।5च्) स एव तुभ्यं भेषजानि कृणवद् भिषजा शुचिः ||5||

(2,10।1अ) क्षेत्रियात् त्वा निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।1च्) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||1||

(2,10।2अ) शं ते अग्निः सहाद्भिर् अस्तु शं सोमः सहौषधीभिः|
(2,10।2च्) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।2ए) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||2||

(2,10।3अ) शम् ते वातो अन्तरिक्षे वयो धाच् छं ते भवन्तु प्रदिशश् चतस्रः|
(2,10।3च्) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।3ए) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||3||

(2,10।4अ) इमा या देवीः प्रदिशश् चतस्रो वातपत्नीर् अभि सूर्यो विचष्टे|
(2,10।4च्) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।4ए) अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||4||

(2,10।5अ) तासु त्वान्तर् जरस्य् आ दधामि प्र यक्ष्म एतु निरृतिः पराचैः|
(2,10।5च्) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।5ए) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||5||

(2,10।6अ) अमुक्था यक्ष्माद् दुरिताद् अवद्याद् द्रुहः पाशाद् ग्राह्याश् चोद् अमुक्थाः|
(2,10।6च्) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।6ए) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||6||

(2,10।7अ) अहा अरातिम् अविदः स्योनम् अप्य् अभूर् भद्रे सुकृतस्य लोके|
(2,10।7च्) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।7ए) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||7||

(2,10।8अ) सूर्यम् ऋतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निर् एनसः|
(2,10।8च्) एवाहम् त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्|
(2,10।8ए) अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ||8||

(2,11।1अ) दूष्या दूषिर् असि हेत्या हेतिर् असि मेन्या मेनिर् असि|
(2,11।1च्) आप्नुहि श्रेयांसम् अति समं क्राम ||1||

(2,11।2अ) स्रक्त्यो ‘सि प्रतिसरो ‘सि प्रत्यभिचरणो ‘सि|
(2,11।2च्) आप्नुहि श्रेयांसम् अति समं क्राम ||2||

(2,11।3अ) प्रति तम् अभि चर यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः|
(2,11।3च्) आप्नुहि श्रेयांसम् अति समं क्राम ||3||

(2,11।4अ) सूरिर् असि वर्चोधा असि तनूपानो ‘सि|
(2,11।4च्) आप्नुहि श्रेयांसम् अति समं क्राम ||4||

(2,11।5अ) शुक्रो ‘सि भ्राजो ‘सि स्वर् असि ज्योतिर् असि|
(2,11।5च्) आप्नुहि श्रेयांसम् अति समं क्राम ||5||

(2,12।1अ) द्यावापृथिवी उर्व् अन्तरिक्षं क्षेत्रस्य पत्न्य् उरुगायो ‘द्भुतः|
(2,12।1च्) उतान्तरिक्षम् उरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ||1||

(2,12।2अ) इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यम् उक्थानि शंसति|
(2,12।2च्) पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ||2||

(2,12।3अ) इदम् इन्द्र शृणुहि सोमप यत् त्वा हृदा शोचता जोहवीमि|
(2,12।3च्) वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ||3||

(2,12।4अ) अशीतिभिस् तिसृभिः सामगेभिर् आदित्येभिर् वसुभिर् अङ्गिरोभिः|
(2,12।4च्) इष्टापूर्तम् अवतु नः पितॄणाम् आमुं ददे हरसा दैव्येन ||4||

(2,12।5अ) द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम्|
(2,12।5च्) अङ्गिरसः पितरः सोम्यासः पापम् आ ऋछत्व् अपकामस्य कर्ता ||5||

(2,12।6अ) अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत् क्रियमाणम्|
(2,12।6च्) तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौर् अभिसंतपाति ||6||

(2,12।7अ) सप्त प्राणान् अष्टौ मन्यस् तांस् ते वृश्चामि ब्रह्मणा|
(2,12।7च्) अया यमस्य सादनम् अग्निदूतो अरंकृतः ||7||

(2,12।8अ) आ दधामि ते पदं समिद्धे जातवेदसि|
(2,12।8च्) अग्निः शरीरं वेवेष्ट्व् असुं वाग् अपि गछतु ||8||

(2,13।1अ) आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने|
(2,13।1च्) घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षताद् इमम् ||1||

(2,13।2अ) परि धत्त धत्त नो वर्चसेमम् जरामृत्युं कृणुत दीर्घम् आयुः|
(2,13।2च्) बृहस्पतिः प्रायछद् वास एतत् सोमाय राज्ञे परिधातवा उ ||2||
(2,13।3अ) परीदं वासो अधिथाः स्वस्तये ‘भूर् गृष्टीनाम् अभिशस्तिपा उ|
(2,13।3च्) शतं च जीव शरदः पुरूची रायश् च पोषम् उपसंव्ययस्व ||3||

(2,13।4अ) एह्य् अश्मानम् आ तिष्ठाश्मा भवतु ते तनूः|
(2,13।4च्) कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ||4||

(2,13।5अ) यस्य ते वासः प्रथमवास्यं हरामस् तं त्वा विश्वे ‘वन्तु देवाः|
(2,13।5च्) तं त्वा भ्रातरः सुवृधा वर्धमानम् अनु जायन्तां बहवः सुजातम् ||5||

(2,14।1अ) निःसालां धृष्णुं धिषणम् एकवाद्याम् जिघत्स्वम्|
(2,14।1च्) सर्वाश् चण्ढस्य नप्त्यो नाशयामः सदान्वाः ||1||

(2,14।2अ) निर् वो गोष्ठाद् अजामसि निर् अक्षान् निर् उपानशात्|
(2,14।2च्) निर् वो मगुन्द्या दुहितरो गृहेभ्यश् चातयामहे ||2||

(2,14।3अ) असौ यो अधराद् गृहस् तत्र सन्त्व् अराय्यः|
(2,14।3च्) तत्र सेदिर् न्य् उच्यतु सर्वाश् च यातुधान्यः ||3||

(2,14।4अ) भूतपतिर् निर् अजत्व् इन्द्रश् चेतः सदान्वाः|
(2,14।4च्) गृहस्य बुध्न आसीनास् ता इन्द्रो वज्रेणाधि तिष्ठतु ||4||

(2,14।5अ) यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः|
(2,14।5च्) यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ||5||

(2,14।6अ) परि धामान्य् आसाम् आशुर् गाष्ठाम् इवासरम्|
(2,14।6च्) अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ||6||

(2,15।1अ) यथा द्यौश् च पृथिवी च न बिभीतो न रिष्यतः|
(2,15।1च्) एवा मे प्राण मा बिभेः ||1||

(2,15।2अ) यथाहश् च रात्री च न बिभीतो न रिष्यतः|
(2,15।2च्) एवा मे प्राण मा बिभेः ||2||

(2,15।3अ) यथा सूर्यश् च चन्द्रश् च न बिभीतो न रिष्यतः|
(2,15।3च्) एवा मे प्राण मा बिभेः ||3||

(2,15।4अ) यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः|
(2,15।4च्) एवा मे प्राण मा बिभेः ||4||

(2,15।5अ) यथा सत्यं चानृतं च न बिभीतो न रिष्यतः|
(2,15।5च्) एवा मे प्राण मा बिभेः ||5||

(2,15।6अ) यथा भूतं च भव्यं च न बिभीतो न रिष्यतः|
(2,15।6च्) एवा मे प्राण मा बिभेः ||6||

(2,16।1अ) प्राणापानौ मृत्योर् मा पातं स्वाहा ||1||

(2,16।2अ) द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ||2||

(2,16।3अ) सूर्य चक्षुषा मा पाहि स्वाहा ||3||

(2,16।4अ) अग्ने वैश्वानर विश्वैर् मा देवैः पाहि स्वाहा ||4||

(2,16।5अ) विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ||5||

(2,17।1अ) ओजो ‘स्य् ओजो मे दाः स्वाहा |1||

(2,17।2अ) सहो ‘सि सहो मे दाः स्वाहा ||2||

(2,17।3अ) बलम् असि बलं दाः स्वाहा ||3||

(2,17।4अ) आयुर् अस्य् आयुर् मे दाः स्वाह ||4||

(2,17।5अ) श्रोत्रम् असि श्रोत्रं मे दाः स्वाह ||5||

(2,17।6अ) चक्षुर् असि चक्षुर् मे दाः स्वाह ||6||

(2,17।7अ) परिपाणम् असि परिपाणं मे दाः स्वाह ||7||

(2,18।1अ) भ्रातृव्यक्षयणम् असि भ्रातृव्यचातनं मे दाः स्वाह ||1||

(2,18।2अ) सपत्नक्षयणम् असि सपत्नचातनं मे दाः स्वाह ||2||

(2,18।3अ) अरायक्षयणम् अस्य् अरायचातनं मे दाः स्वाह ||3||

(2,18।4अ) पिशाचक्षयणम् असि पिशाचचातनं मे दाः स्वाह ||4||

(2,18।5अ) सदान्वाक्षयणम् असि सदान्वाचातनं मे दाः स्वाह ||5||

(2,19।1अ) अग्ने यत् ते तपस् तेन तं प्रति तप यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||1||

(2,19।2अ) अग्ने यत् ते हरस् तेन तं प्रति हर यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||2||

(2,19।3अ) अग्ने यत् ते ‘र्चिस् तेन तं प्रत्य् अर्च यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||3||

(2,19।4अ) अग्ने यत् ते शोचिस् तेन तं प्रति शोच यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||4||

(2,19।5अ) अग्ने यत् ते तेजस् तेन तम् अतेजसं कृणु यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||5||

(2,20।1अ) वायो यत् ते तपस् तेन तं प्रति तप यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||1||

(2,20।2अ) वायो यत् ते हरस् तेन तं प्रति हर यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||2||

(2,20।3अ) वायो यत् ते ‘र्चिस् तेन तं प्रत्य् अर्च यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||3||

(2,20।4अ) वायो यत् ते शोचिस् तेन तं प्रति शोच यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||4||

(2,20।5अ) वायो यत् ते तेजस् तेन तम् अतेजसं कृणु यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||5||

(2,21।1अ) सूर्य यत् ते तपस् तेन तं प्रति तप यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||1||

(2,21।2अ) सूर्य यत् ते हरस् तेन तं प्रति हर यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||2||

(2,21।3अ) सूर्य यत् ते ‘र्चिस् तेन तं प्रत्य् अर्च यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||3||

(2,21।4अ) सूर्य यत् ते शोचिस् तेन तं प्रति शोच यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||4||

(2,21।5अ) सूर्य यत् ते तेजस् तेन तम् अतेजसं कृणु यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||5||

(2,22।1अ) चन्द्र यत् ते तपस् तेन तं प्रति तप यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||1||

(2,22।2अ) चन्द्र यत् ते हरस् तेन तं प्रति हर यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||2||

(2,22।3अ) चन्द्र यत् ते ‘र्चिस् तेन तं प्रत्य् अर्च यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||3||

(2,22।4अ) चन्द्र यत् ते शोचिस् तेन तं प्रति शोच यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||4||

(2,22।5अ) चन्द्र यत् ते तेजस् तेन तम् अतेजसं कृणु यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||5||

(2,23।1अ) आपो यद् वस् तपस् तेन तं प्रति तपत यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||1||

(2,23।2अ) आपो यद् वस् हरस् तेन तं प्रति हरत यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||2||

(2,23।3अ) आपो यद् वस् ‘र्चिस् तेन तं प्रति अर्चत यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||3||

(2,23।4अ) आपो यद् वस् शोचिस् तेन तं प्रति शोचत यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||4||

(2,23।5अ) आपो यद् वस् तेजस् तेन तम् अतेजसं कृणुत यो ‘स्मान् द्वेष्टि यं वयं द्विष्मः ||5||

(2,24।1अ) शेरभक शेरभ पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।1च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||1||

(2,24।2अ) शेवृधक शेवृध पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।2च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||2||

(2,24।3अ) म्रोकानुम्रोक पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।3च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||3||

(2,24।4अ) सर्पानुसर्प पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।4च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||4||

(2,24।5अ) जूर्णि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।5च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||5||

(2,24।6अ) उपब्दे पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।6च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||6||

(2,24।7अ) अर्जुनि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।7च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||7||

(2,24।8अ) भरूजि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः|
(2,24।8च्) यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ||8||

(2,25।1अ) शं नो देवी पृश्निपर्ण्य् अशं निरृत्या अकः|
(2,25।1च्) उग्रा हि कण्वजम्भनी ताम् अभक्षि सहस्वतीम् ||1||

(2,25।2अ) सहमानेयं प्रथमा पृश्निपर्ण्य् अजायत|
(2,25।2च्) तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेर् इव ||2||

(2,25।3अ) अरायम् असृक्पावानं यश् च स्फातिं जिहीर्षति|
(2,25।3च्) गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ||3||

(2,25।4अ) गिरिम् एनां आ वेशय कण्वान् जीवितयोपनान्|
(2,25।4च्) तांस् त्वं देवि पृश्निपर्ण्य् अग्निर् इवानुदहन्न् इहि ||4||

(2,25।5अ) पराच एनान् प्र णुद कण्वान् जीवितयोपनान्|
(2,25।5च्) तमांसि यत्र गछन्ति तत् क्रव्यादो अजीगमम् ||5||

(2,26।1अ) एह यन्तु पशवो ये परेयुर् वायुर् येषां सहचारं जुजोष|
(2,26।1च्) त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यछतु ||1||

(2,26।2अ) इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिर् आ नयतु प्रजानन्|
(2,26।2च्) सिनीवाली नयत्व् आग्रम् एषाम् आजग्मुषो अनुमते नि यछ ||2||

(2,26।3अ) सं सं स्रवन्तु पशवः सम् अश्वाः सम् उ पूरुषाः|
(2,26।3च्) सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ||3||

(2,26।4अ) सं सिञ्चामि गवां क्षीरम् सम् आज्येन बलम् रसम्|
(2,26।4च्) संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ||4||

(2,26।5अ) आ हरामि गवां क्षीरम् आहार्षं धान्यं रसम्|
(2,26।5च्) आहृता अस्माकं वीरा आ पत्नीर् इदम् अस्तकम् ||5||

(2,27।1अ) नेच् छत्रुः प्राशं जयाति सहमानाभिभूर् असि|
(2,27।1च्) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ||1||

(2,27।2अ) सुपर्णस् त्वान्व् अविन्दत् सूकरस् त्वाखनन् नसा|
(2,27।2च्) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ||2||

(2,27।3अ) इन्द्रो ह चक्रे त्वा बाहाव् असुरेभ्य स्तरीतवे|
(2,27।3च्) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ||3||

(2,27।4अ) पाटाम् इन्द्रो व्य् आश्नाद् असुरेभ्य स्तरीतवे|
(2,27।4च्) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ||4||

(2,27।5अ) तयाहं शत्रून्त् साक्ष इन्द्रः सालावृकां इव|
(2,27।5च्) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ||5||

(2,27।6अ) रुद्र जलाषभेषज नीलशिखण्ढ कर्मकृत्|
(2,27।6च्) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ||6||

(2,27।7अ) तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति|
(2,27।7च्) अधि नो ब्रूहि शक्तिभिः प्राशि माम् उत्तरं कृधि ||7||

(2,28।1अ) तुभ्यम् एव जरिमन् वर्धताम् अयम् मेमम् अन्ये मृत्यवो हिंसिषुः शतं ये|
(2,28।1च्) मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात् पात्व् अंहसः ||1||

(2,28।2अ) मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ|
(2,28।2च्) तद् अग्निर् होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ||2||

(2,28।3अ) त्वम् ईशिषे पशूनाम् पार्थिवानां ये जाता उत वा ये जनित्राः|
(2,28।3च्) मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर् मो अमित्राः ||3||

(2,28।4अ) द्यौष् ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने|
(2,28।4च्) यथा जीवा अदितेर् उपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ||4||

(2,28।5अ) इमम् अग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन्|
(2,28।5च्) मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर् यथासत् ||5||

(2,29।1अ) पार्थिवस्य रसे देवा भगस्य तन्वो बले|
(2,29।1च्) आयुष्यम् अस्मा अग्निः सूर्यो वर्च आ धाद् बृहस्पतिः ||1||

(2,29।2अ) आयुर् अस्मै धेहि जातवेदः प्रजां त्वष्टर् अधिनिधेहि अस्मै|
(2,29।2च्) रायस् पोषं सवितर् आ सुवास्मै शतं जीवाति शरदस् तवायम् ||2||

(2,29।3अ) आशीर् ण ऊर्जम् उत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ|
(2,29।3च्) जयम् क्षेत्राणि सहसायम् इन्द्र कृण्वानो अन्यान् अधरान्त् सपत्नान् ||3||

(2,29।4अ) इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिर् उग्रः प्रहितो नो आगन्|
(2,29।4च्) एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत् ||4||

(2,29।5अ) ऊर्जम् अस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम्|
(2,29।5च्) ऊर्जम् अस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जम् आपः ||5||

(2,29।6अ) शिवाभिष् टे हृदयं तर्पयाम्य् अनमीवो मोदिषीष्ठाः सुवर्चाः|
(2,29।6च्) सवासिनौ पिबतां मन्थम् एतम् अश्विनो रूपं परिधाय मायाम् ||6||

(2,29।7अ) इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधाम् अजरां सा त एषा|
(2,29।7च्) तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद् भिषजस् ते अक्रन् ||7||

(2,30।1अ) यथेदं भूम्या अधि तृणं वातो मथायति|
(2,30।1च्) एवा मथ्नामि ते मनो यथा मां कामिन्य् असो यथा मन् नापगा असः ||1||

(2,30।2अ) सं चेन् नयाथो अश्विना कामिना सं च वक्षथः|
(2,30।2च्) सं वां भगासो अग्मत सं चित्तानि सम् उ व्रता ||2||

(2,30।3अ) यत् सुपर्णा विवक्षवो अनमीवा विवक्षवः|
(2,30।3च्) तत्र मे गछताद् धवं शल्य इव कुल्मलं यथा ||3||

(2,30।4अ) यद् अन्तरं तद् बाह्यं यद् बाह्यं तद् अन्तरम्|
(2,30।4च्) कन्यानां विश्वरूपाणां मनो गृभायौषधे ||4||

(2,30।5अ) एयम् अगन् पतिकामा जनिकामो ‘हम् आगमम्|
(2,30।5च्) अश्वः कनिक्रदद् यथा भगेनाहं सहागमम् ||5||

(2,31।1अ) इन्द्रस्य या मही दृषत् क्रिमेर् विश्वस्य तर्हणी|
(2,31।1च्) तया पिनष्मि सं क्रिमीन् दृषदा खल्वां इव ||1||

(2,31।2अ) दृष्टम् अदृष्टम् अतृहम् अथो कुरूरुम् अतृहम्|
(2,31।2च्) अल्गण्ढून्त् सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ||2||

(2,31।3अ) अल्गण्ढून् हन्मि महता वधेन दूना अदूना अरसा अभूवन्|
(2,31।3च्) शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिर् उछिषातै ||3||

(2,31।4अ) अन्वान्त्र्यं शीर्षण्यम् अथो पार्ष्टेयं क्रिमीन्|
(2,31।4च्) अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ||4||

(2,31।5अ) ये क्रिमयः पर्वतेशु वनेष्व् ओषधीषु पशुष्व् अप्स्व् अन्तः|
(2,31।5च्) ये अस्माकं तन्वम् आविविशुः सर्वं तद् धन्मि जनिम क्रिमीणाम् ||5||

(2,32।1अ) उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः|
(2,32।1च्) ये अन्तः क्रिमयो गवि ||1||

(2,32।2अ) विश्वरूपं चतुरक्षं क्रिमिं सारङ्गम् अर्जुनम्|
(2,32।2च्) शृणाम्य् अस्य पृष्टीर् अपि वृश्चामि यच् छिरः ||2||

(2,32।3अ) अत्रिवद् वः क्रिमयो हन्मि कण्ववज् जमदग्निवत्|
(2,32।3च्) अगस्त्यस्य ब्रह्मणा सं पिनष्म्य् अहं क्रिमीन् ||3||

(2,32।4अ) हतो राजा क्रिमीणाम् उतैषां स्थपतिर् हतः|
(2,32।4च्) हतो हतमाता क्रिमिर् हतभ्राता हतस्वसा ||4||

(2,32।5अ) हतासो अस्य वेशसो हतासः परिवेशसः|
(2,32।5च्) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ||5||

(2,32।6अ) प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि|
(2,32।6च्) भिनाद्मि ते कुषुम्भं यस् ते विषधानः ||6||

(2,33।1अ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि|
(2,33।1च्) यक्ष्मं शीर्षण्यं मस्तिष्काज् जिह्वाया वि वृहामि ते ||1||

(2,33।2अ) ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्|
(2,33।2च्) यक्ष्मं दोषण्यम् अंसाभ्यां बाहुभ्यां वि वृहामि ते ||2||

(2,33।3अ) हृदयात् ते परि क्लोम्नो हलीक्ष्णात् पार्श्वाभ्याम्|
(2,33।3च्) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस् ते वि वृहामसि ||3||

(2,33।4अ) आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् उदराद् अधि|
(2,33।4च्) यक्ष्मं कुक्षिभ्याम् प्लाशेर् नाभ्या वि वृहामि ते ||4||

(2,33।5अ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्|
(2,33।5च्) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ||5||

(2,33।6अ) अस्थिभ्यस् ते मज्जभ्यः स्नावभ्यो धमनिभ्यः|
(2,33।6च्) यक्ष्मम् पाणिभ्याम् अङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ||6||

(2,33।7अ) अङ्गेअङ्गे लोम्निलोम्नि यस् ते पर्वणिपर्वणि|
(2,33।7च्) यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ||7||

(2,34।1अ) य ईशे पशुपतिः पशूनाम् चतुष्पदाम् उत यो द्विपदाम्|
(2,34।1च्) निष्क्रीतः स यज्ञियं भागम् एतु रायस् पोषा यजमानं सचन्ताम् ||1||

(2,34।2अ) प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः|
(2,34।2च्) उपाकृतं शशमानं यद् अस्थात् प्रियम् देवानाम् अप्य् एतु पाथः ||2||

(2,34।3अ) ये बध्यमानम् अनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च|
(2,34।3च्) अग्निष् टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ||3||

(2,34।4अ) ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः|
(2,34।4च्) वायुष् टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ||4||

(2,34।5अ) प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणम् अङ्गेभ्यः पर्य् आचरन्तम्|
(2,34।5च्) दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर् देवयानैः ||5||

(2,35।1अ) ये भक्षयन्तो न वसून्य् आनृधुर् यान् अग्नयो अन्वतप्यन्त धिष्ण्याः|
(2,35।1च्) या तेषाम् अवया दुरिष्टिः स्विष्टिं नस् तां कृणवद् विश्वकर्मा ||1||

(2,35।2अ) यज्ञपतिम् ऋषयः एनसाहुर् निर्भक्तं प्रजा अनुतप्यमानम्|
(2,35।2च्) मथव्यान्त् स्तोकान् अप यान् रराध सं नष् टेभिः सृजतु विश्वकर्मा ||2||

(2,35।3अ) अदान्यान्त् सोमपान् मन्यमानो यज्ञस्य विद्वान्त् समये न धीरः|
(2,35।3च्) यद् एनश् चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ||3||

(2,35।4अ) घोरा ऋषयो नमो अस्त्व् एभ्यश् चक्षुर् यद् एषां मनसश् च सत्यम्|
(2,35।4च्) बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस् ते पाह्य् अस्मान् ||4||

(2,35।5अ) यज्ञस्य चक्षुः प्रभृतिर् मुखं च वाचा श्रोत्रेण मनसा जुहोमि|
(2,35।5च्) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ||5||

(2,36।1अ) आ नो अग्ने सुमतिं संभलो गमेद् इमां कुमारीं सह नो भगेन|
(2,36।1च्) जुष्टा वरेषु समनेषु वल्गुर् ओषं पत्या सौभगम् अस्तु अस्यै ||1||

(2,36।2अ) सोमजुष्टं ब्रह्मजुष्टम् अर्यम्ना संभृतं भगम्|
(2,36।2च्) धातुर् देवस्य सत्येन कृणोमि पतिवेदनम् ||2||

(2,36।3अ) इयम् अग्ने नारी पतिम् विदेष्ट सोमो हि राजा सुभगां कृणोति|
(2,36।3च्) सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ||3||

(2,36।4अ) यथाखरो मघवंश् चारुर् एष प्रियो मृगाणां सुषदा बभूव|
(2,36।4च्) एवा भगस्य जुष्टेयम् अस्तु नारी संप्रिया पत्याविराधयन्ती ||4||

(2,36।5अ) भगस्य नावम् आ रोह पूर्णाम् अनुपदस्वतीम्|
(2,36।5च्) तयोपप्रतारय यो वरः प्रतिकाम्यः ||5||

(2,36।6अ) आ क्रन्दय धनपते वरम् आमनसं कृणु|
(2,36।6च्) सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ||6||

(2,36।7अ) इदं हिरण्यं गुल्गुल्व् अयम् अउक्षो अथो भगः|
(2,36।7च्) एते पतिभ्यस् त्वाम् अदुः प्रतिकामाय वेत्तवे ||
(2,36।7ए) आ ते नयतु सविता नयतु पतिर् यः प्रतिकाम्यः।।7।।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>