अथर्ववेद काण्ड 01

(1,1।1अ) ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः।
(1,1।1च्) वाचस् पतिर् बला तेषां तन्वो अद्य दधातु मे ।।1।।

(1,1।2अ) पुनर् एहि वचस् पते देवेन मनसा सह।
(1,1।2च्) वसोष् पते नि रमय मय्य् एवास्तु मयि श्रुतम् ।।2।।

(1,1।3अ) इहैवाभि वि तनूभे आर्त्नी इव ज्यया|
(1,1।3च्) वाचस् पतिर् निर्‌ यच्छतु मय्य् एवास्तु मयि श्रुतम् ।।3।।

(1,1।4अ) उपहूतो वाचस् पतिर् उपास्मान् वाचस्पतिर् ह्वयताम्|
(1,1।4च्) सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ।।4।।

(1,2।1अ) विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्|
(1,2।1च्) विद्मो ष्व् अस्य मातरं पृथिवीं भूरिवर्पसम् ।।1।।

(1,2।2अ) ज्याके परि णो नमाश्मानं तन्वं कृधि|
(1,2।2च्) वीडुर्‌ वरीयोऽरातीर् अप द्वेषांस्य्‌ आ कृधि ।।2।।

(1,2।3अ) वृक्षं यद् गावः परिषस्वजाना अनुस्फुरं शरं अर्चन्त्य् ऋभुम्|
(1,2।3च्) शरुम् अस्मद् यावय दिद्युम् इन्द्र ।।3।।

(1,2।4अ) यथा द्यां च पृथिवीं चान्तस् तिष्ठति तेजनम्|
(1,2।4च्) एवा रोगं चास्रावं चान्तस् तिष्ठतु मुञ्ज इत् ।।4।।

(1,3।1अ) विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यं|
(1,3।1च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ।।1।।

(1,3।2अ) विद्मा शरस्य पितरं मित्रं शतवृष्ण्यं|
(1,3।2च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ।।2।।

(1,3।3अ) विद्मा शरस्य पितरं वरुणं शतवृष्ण्यं|
(1,3।3च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ।।3।।

(1,3।4अ) विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यं|
(1,3।4च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ।।4।।

(1,3।5अ) विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यं|
(1,3।5च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ।।5।।

(1,3।6अ) यद् आन्त्रेषु गवीन्योर् यद् वस्ताव् अधि संश्रितम्|
(1,3।6च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ।।6।।

(1,3।7अ) प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव|
(1,3।7च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ।।7।।

(1,3।8अ) विषितं ते वस्तिबिलं समुद्रस्योदधेर् इव|
(1,3।8च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ।।8।।

(1,3।9अ) यथेषुका परापतद् अवसृष्टाधि धन्वनः|
(1,3।9च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ।।9।।

(1,4।1अ) अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम्|
(1,4।1च्) पृञ्चतीर् मधुना पयः ।।1।।

(1,4।2अ) अमूर् या उप सूर्ये याभिर् वा सूर्यः सह|
(1,4।2च्) ता नो हिन्वन्त्व् अध्वरम् ।।2।।

(1,4।3अ) अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः|
(1,4।3च्) सिन्धुभ्यः कर्त्वं हविः ।।3।।

(1,4।4अ) अप्स्व् अन्तर् अमृतम् अप्सु भेषजम्|
(1,4।4च्) अपाम् उत प्रशस्तिभिर् अश्वा भवथ वाजिनो गावो भवथ वाजिनीः ।।4।।

(1,5।1अ) आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन|
(1,5।1च्) महे रणाय चक्षसे ।।1।।

(1,5।2अ) यो वः शिवतमो रसस् तस्य भाजयतेह नः|
(1,5।2च्) उशतीर् इव मातरः ।।2।।

(1,5।3अ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ|
(1,5।3च्) आपो जनयथा च नः ।।3।।

(1,5।4अ) ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम्|
(1,5।4च्) अपो याचामि भेषजम् ।।4।।

(1,6।1अ) शं नो देवीर् अभिष्टय आपो भवन्तु पीतये|
(1,6।1च्) शं योर् अभि स्रवन्तु नः ।।1।।

(1,6।2अ) अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा|
(1,6।2च्) अग्निं च विश्वशंभुवम् ।।2।।

(1,6।3अ) आपः पृणीत भेषजं वरूथं तन्वे मम|
(1,6।3च्) ज्योक् च सूर्यं दृशे ।।3।।

(1,6।4अ) शं न आपो धन्वन्याः शम् उ सन्त्व् अनूप्याः|
(1,6।4च्) शं नः खनित्रिमा आपः शम् उ याः कुम्भ आभृताः|
(1,6।4ए) शिवा नः सन्तु वार्षिकीः ।।4।।

(1,7।1अ) स्तुवानम् अग्न आ वह यातुधानं किमीदिनम्|
(1,7।1च्) त्वं हि देव वन्दितो हन्ता दस्योर् बभूविथ ।।1।।

(1,7।2अ) आज्यस्य परमेष्ठिन् जातवेदस् तनूवशिन्|
(1,7।2च्) अग्ने तौलस्य प्राशान यातुधानान् वि लापय ।।2।।

(1,7।3अ) वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः|
(1,7।3च्) अथेदम् अग्ने नो हविर् इन्द्रश् च प्रति हर्यतम् ।।3।।

(1,7।4अ) अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान्|
(1,7।4च्) ब्रवीतु सर्वो यातुमान् अयम् अस्मीत्य् एत्य ।।4।।

(1,7।5अ) पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः|
(1,7।5च्) त्वया सर्वे परितप्ताः पुरस्तात् त आ यन्तु प्रब्रुवाणा उपेदम् ।।5।।

(1,7।6अ) आ रभस्व जातवेदो ‘स्माकार्थाय जज्ञिषे|
(1,7।6च्) दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ।।6।।

(1,7।7अ) त्वम् अग्ने यातुधानान् उपबद्धां इहा वह|
(1,7।7च्) अथैषाम् इन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ।।7।।

(1,8।1अ) इदं हविर् यातुधानान् नादी फेनम् इवा वहत्|
(1,8।1च्) य इदं स्त्री पुमान् अकर् इह स स्तुवतां जनः ।।1।।

(1,8।2अ) अयं स्तुवान आगमद् इमं स्म प्रति हर्यत|
(1,8।2च्) बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ।।2।।

(1,8।3अ) यातुधानस्य सोमप जहि प्रजां नयस्व च|
(1,8।3च्) नि स्तुवानस्य पातय परम् अक्ष्य् उतावरम् ।।3।।

(1,8।4अ) यत्रैषाम् अग्ने जनिमानि वेत्थ गुहा सताम् अत्त्रिणां जातवेदः|
(1,8।4च्) तांस् त्वं ब्रह्मणा वावृधानो जह्य् एषां शततर्हम् अग्ने ।।4।।

(1,9।1अ) अस्मिन् वसु वसवो धारयन्त्व् इन्द्रः पूषा वरुणो मित्रो अग्निः|
(1,9।1च्) इमम् आदित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ।।1।।

(1,9।2अ) अस्य देवाः प्रदिशि ज्योतिर् अस्तु सूर्यो अग्निर् उत वा हिरण्यम्|
(1,9।2च्) सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ।।2।।

(1,9।3अ) येनेन्द्राय समभरः पयांस्य् उत्तमेन ब्रह्मणा जातवेदः|
(1,9।3च्) तेन त्वम् अग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्य् एनम् ।।3।।

(1,9।4अ) अइषां यज्ञम् उत वर्चो ददे ‘हं रायस् पोषम् उत चित्तान्य् अग्ने|
(1,9।4च्) सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ।।4।।

(1,10।1अ) अयं देवानाम् असुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः|
(1,10।1च्) ततस् परि ब्रह्मणा शाशदान उग्रस्य मन्योर् उद् इमं नयामि ।।1।।

(1,10।2अ) नमस् ते रजन् वरुणास्तु मन्यवे विश्वं ह्य् उग्र निचिकेषि द्रुग्धम्|
(1,10।2च्) सहस्रम् अन्यान् प्र सुवामि साकं शतं जीवाति शरदस् तवायम् ।।2।।

(1,10।3अ) यद् उवक्थानृतम् जिह्वया वृजिनं बहु|
(1,10।3च्) राज्ञस् त्वा सत्यधर्मणो मुञ्चामि वरुणाद् अहम् ।।3।।

(1,10।4अ) मुञ्चामि त्वा वैश्वानराद् अर्णवान् महतस् परि|
(1,10।4च्) सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ।।4।।

(1,11।1अ) वषट् ते पूषन्न् अस्मिन्त् सूताव् अर्यमा होता कृणोतु वेधाः|
(1,11।1च्) सिस्रतां नार्य् ऋतप्रजाता वि पर्वाणि जिहतां सूतवा उ ।।1।।

(1,11।2अ) चतस्रो दिवः प्रदिशश् चतस्रो भूम्या उत|
(1,11।2च्) देवा गर्भं सम् अइरयन् तं व्य् ऊर्णुवन्तु सूतवे ।।2।।

(1,11।3अ) सूषा व्य् ऊर्णोतु वि योनिं हापयामसि|
(1,11।3च्) श्रथया सूषणे त्वम् अव त्वं बिष्कले सृज ।।3।।

(1,11।4अ) नेव मांसे न पीवसि नेव मज्जस्व् आहतम्|
(1,11।4च्) अवैतु पृश्नि शेवलं शुने जराय्व् अत्तवे ‘व जरायु पद्यताम् ।।4।।

(1,11।5अ) वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके|
(1,11।5च्) वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ।।5।।

(1,11।6अ) यथा वातो यथा मनो यथा पतन्ति पक्षिणः|
(1,11।6च्) एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ।।6।।

(1,12।1अ) जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या|
(1,12।1च्) स नो मृढाति तन्व ऋजुगो रुजन् य एकम् ओजस् त्रेधा विचक्रमे ।।1।।

(1,12।2अ) अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस् त्वा हविषा विधेम|
(1,12।2च्) अङ्कान्त् समङ्कान् हविषा विधेम यो अग्रभीत् पर्वास्या ग्रभीता ।।2।।

(1,12।3अ) मुञ्च शीर्षक्त्या उत कास एनं परुष्परुर् आविवेशा यो अस्य|
(1,12।3च्) यो अभ्रजा वातजा यश् च शुष्मो वनस्पतीन्त् सचतां पर्वतांश् च ।।3।।

(1,12।4अ) शं मे परस्मै गात्राय शम् अस्त्व् अवराय मे|
(1,12।4च्) शं मे चतुर्भ्यो अङ्गेभ्यः शम् अस्तु तन्वे मम ।।4।।

(1,13।1अ) नमस् ते अस्तु विद्युते नमस् ते स्तनयित्नवे|
(1,13।1च्) नमस् ते अस्त्व् अश्मने येना दूढाशे अस्यसि ।।1।।

(1,13।2अ) नमस् ते प्रवतो नपाद् यतस् तपः समूहसि|
(1,13।2च्) मृढया नस् तनूभ्यो मयस् तोकेभ्यस् कृधि ।।2।।

(1,13।3अ) प्रवतो नपान् नम एवास्तु तुभ्यं नमस् ते हेतये तपुषे च कृण्मः|
(1,13।3च्) विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर् निहितासि नाभिः ।।3।।

(1,13।4अ) यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम्|
(1,13।4च्) सा नो मृढ विदथे गृणाना तस्यै ते नमो अस्तु देवि ।।4।।

(1,14।1अ) भगम् अस्या वर्च आदिष्य् अधि वृक्षाद् इव स्रजम्|
(1,14।1च्) महाबुध्न इव पर्वतो ज्योक् पितृष्व् आस्ताम् ।।1।।

(1,14।2अ) एषा ते राजन् कन्या वधूर् नि धूयताम् यम|
(1,14।2च्) सा मातुर् बध्यतां गृहे ‘थो भ्रातुर् अथो पितुः ।।2।।

(1,14।3अ) एषा ते कुलपा राजन् ताम् उ ते परि दद्मसि|
(1,14।3च्) ज्योक् पितृष्व् आसाता आ शीर्ष्णः शमोप्यात् ।।3।।

(1,14।4अ) असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च|
(1,14।4च्) अन्तःकोशम् इव जामयो ‘पि नह्यामि ते भगम् ।।4 ।।

(1,15।1अ) सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः|
(1,15।1च्) इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ।।1।।

(1,15।2अ) इहैव हवम् आ यात म इह संस्रावणा उतेमं वर्धयता गिरः|
(1,15।2च्) इहैतु सर्वो यः पशुर् अस्मिन् तिष्ठतु या रयिः ।।2।।

(1,15।3अ) ये नदीनां संस्रवन्त्य् उत्सासः सदम् अक्षिताः|
(1,15।3च्) तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ।।3।।

(1,15।4अ) ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च|
(1,15।4ब्) तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ।।4।।

(1,16।1अ) ये ‘मावास्यां रात्रिम् उदस्थुर् व्राजम् अत्त्रिणः|
(1,16।1च्) अग्निस् तुरीयो यातुहा सो अस्मभ्यम् अधि ब्रवत् ।।1।।

(1,16।2अ) सीसायाध्य् आह वरुणः सीसायाग्निर् उपावति|
(1,16।2च्) सीसं म इन्द्रः प्रायछत् तद् अङ्ग यातुचातनम् ।।2।।

(1,16।3अ) इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः|
(1,16।3च्) अनेन विश्वा ससहे या जातानि पिशाच्याः ।।3।।

(1,16।4अ) यदि नो गां हंसि यद्य् अश्वं यदि पूरुषम्|
(1,16।4च्) तं त्वा सीसेन विध्यामो यथा नो ‘सो अवीरहा ।।4।।

(1,17।1अ) अमूर् या यन्ति योषितो हिरा लोहितवाससः|
(1,17।1च्) अभ्रातर इव जामयस् तिष्ठन्तु हतवर्चसः ।।1।।

(1,17।2अ) तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे|
(1,17।2च्) कनिष्ठिका च तिष्ठति तिष्ठाद् इद् धमनिर् मही ।।2।।

(1,17।3अ) शतस्य धमनीनां सहस्रस्य हिराणाम्|
(1,17।3च्) अस्थुर् इन् मध्यमा इमाः साकम् अन्ता अरंसत ।।3।।

(1,17।4अ) परि वः सिकतावती धनूर् बृहत्य् अक्रमीत्|
(1,17।4च्) तिष्ठतेलयता सु कम् ।।4।।

(1,18।1अ) निर् लक्ष्म्यं ललाम्यं निर् अरातिं सुवामसि|
(1,18।1च्) अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ।।1।।

(1,18।2अ) निर् अरणिं सविता साविषक् पदोर् निर् हस्तयोर् वरुणो मित्रो अर्यमा|
(1,18।2च्) निर् अस्मभ्यम् अनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ।।2।।

(1,18।3अ) यत् त आत्मनि तन्वां घोरम् अस्ति यद् वा केशेषु प्रतिचक्षणे वा|
(1,18।3च्) सर्वं तद् वाचाप हन्मो वयं देवस् त्वा सविता सूदयतु ।।3।।

(1,18।4अ) रिश्यपदीं वृषदतीं गोषेधां विधमाम् उत|
(1,18।4च्) विलीढ्ह्यं ललाम्यं ता अस्मन् नाशयामसि ।।4।।

(1,19।1अ) मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन्|
(1,19।1च्) आराच् छरव्या अस्मद् विषूचीर् इन्द्र पातय ।।1।।

(1,19।2अ) विष्वञ्चो अस्मच् छरवः पतन्तु ये अस्ता ये चास्याः|
(1,19।2च्) दैवीर् मनुष्येसवो ममामित्रान् वि विध्यत ।।2।।

(1,19।3अ) यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मां अभिदासति|
(1,19।3च्) रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ।।3।।

(1,19।4अ) यः सपत्नो यो ‘सपत्नो यश् च द्विषन् छपाति नः|
(1,19।4च्) देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ।।4।।

(1,20।1अ) अदारसृद् भवतु देव सोमास्मिन् यज्ञे मरुतो मृढता नः|
(1,20।1च्) मा नो विदद् अभिभा मो अशस्तिर् मा नो विदद् वृजिना द्वेष्या या ।।1।।

(1,20।2अ) यो अद्य सेन्यो वधो ‘घायूनाम् उदीरते|
(1,20।2च्) युवं तं मित्रावरुणाव् अस्मद् यावयतं परि ।।2।।

(1,20।3अ) इतश् च यद् अमुतश् च यद् वधं वरुण यावय|
(1,20।3च्) वि महच् छर्म यछ वरीयो यावया वधम् ।।3।।

(1,20।4अ) शास इत्था महां अस्य् अमित्रसाहो अस्तृतः|
(1,20।4च्) न यस्य हन्यते सखा न जीयते कदा चन ।।4।।

(1,21।1अ) स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी|
(1,21।1च्) वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ।।1।।

(1,21।2अ) वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः|
(1,21।2च्) अधमं गमया तमो यो अस्मां अभिदासति ।।2।।

(1,21।3अ) वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज|
(1,21।3च्) वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ।।3।।

(1,21।4अ) अपेन्द्र द्विषतो मनो ‘प जिज्यासतो वधम्|
(1,21।4च्) वि महच् छर्म यछ वरीयो यावया वधम् ।।4।।

(1,22।1अ) अनु सूर्यम् उद् अयतां हृद्द्योतो हरिमा च ते|
(1,22।1च्) गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ।।1।।

(1,22।2अ) परि त्वा रोहितैर् वर्णैर् दीर्घायुत्वाय दध्मसि|
(1,22।2च्) यथायम् अरपा असद् अथो अहरितो भुवत् ।।2।।

(1,22।3अ) या रोहिणीर् देवत्या गावो या उत रोहिणीः|
(1,22।3च्) रूपंरूपं वयोवयस् ताभिष् ट्वा परि दध्मसि ।।3।।

(1,22।4अ) शुकेषु ते हरिमाणं रोपणाकासु दध्मसि|
(1,22।4च्) अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ।।4।।

(1,23।1अ) नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च|
(1,23।1च्) इदं रजनि रजय किलासं पलितं च यत् ।।1।।

(1,23।2अ) किलासं च पलितं च निर् इतो नाशया पृषत्|
(1,23।2च्) आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ।।2।।

(1,23।3अ) असितं ते प्रलयनम् आस्थानम् असितं तव|
(1,23।3च्) असिक्नी अस्य् ओषधे निर् इतो नाशया पृषत् ।।3।।

(1,23।4अ) अस्थिजस्य किलासस्य तनूजस्य च यत् त्वचि|
(1,23।4च्) दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतम् अनीनशम् ।।4।।

(1,24।1अ) सुपर्णो जातः प्रथमस् तस्य त्वं पित्तम् आसिथ|
(1,24।1च्) तद् आसुरी युधा जिता रूपं चक्रे वनस्पतीन् ।।1।।

(1,24।2अ) आसुरी चक्रे प्रथमेदं किलासभेषजम् इदं किलासनाशनम्|
(1,24।2च्) अनीनशत् किलासं सरूपाम् अकरत् त्वचम् ।।2।।

(1,24।3अ) सरूपा नाम ते माता सरूपो नाम ते पिता|
(1,24।3च्) सरूपकृत् त्वम् ओषधे सा सरूपम् इदं कृधि ।।3।।

(1,24।4अ) श्यामा सरूपंकरणी पृथिव्या अध्य् उद्भृता|
(1,24।4च्) इदम् ऊ षु प्र साधय पुना रूपाणि कल्पय ।।4।।

(1,25।1अ) यद् अग्निर् आपो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि|
(1,25।1च्) तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ।।1।।

(1,25।2अ) यद्य् अर्चिर् यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम्|
(1,25।2च्) ह्रूढुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ।।2।।

(1,25।3अ) यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः|
(1,25।3च्) ह्रूढुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ।।3।।

(1,25।4अ) नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि|
(1,25।4च्) यो अन्येद्युर् उभयद्युर् अभ्येति तृतीयकाय नमो अस्तु तक्मने ।।4।।

(1,26।1अ) आरे ‘साव् अस्मद् अस्तु हेतिर् देवासो असत्|
(1,26।1च्) आरे अश्मा यम् अस्यथ ।।1।।

(1,26।2अ) सखासाव् अस्मभ्यम् अस्तु रातिः सखेन्द्रो भगः|
(1,26।2च्) सविता चित्रराधाः ।।2।।

(1,26।3अ) यूयम् नः प्रवतो नपान् मरुतः सूर्यत्वचसः|
(1,26।3च्) शर्म यछथ सप्रथाः ।।3।।

(1,26।4अ) सुषूदत मृढत मृढया नस् तनूभ्यो|
(1,26।4च्) मयस् तोकेभ्यस् कृधि ।।4।|

(1,27।1अ) अमूः पारे पृदाक्वस् त्रिषप्ता निर्जरायवः|
(1,27।1च्) तासाम् जरायुभिर् वयम् अक्ष्याव् अपि व्ययामस्य् अघायोः परिपन्थिनः ||1||

(1,27।2अ) विषूच्य् एतु कृन्तती पिनाकम् इव बिभ्रती|
(1,27।2च्) विष्वक् पुनर्भुवा मनो ‘समृद्धा अघायवः ||2||

(1,27।3अ) न बहवः सम् अशकन् नार्भका अभि दाधृषुः|
(1,27।3च्) वेणोर् अद्गा इवाभितो ‘समृद्धा अघायवः ||3||

(1,27।4अ) प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान्|
(1,27।4च्) इन्द्रान्य् एतु प्रथमाजीतामुषिता पुरः ||4||

(1,28।1अ) उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः|
(1,28।1च्) दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ||1||

(1,28।2अ) प्रति दह यातुधानान् प्रति देव किमीदिनः|
(1,28।2च्) प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ||2||

(1,28।3अ) या शशाप शपनेन याघं मूरम् आदधे|
(1,28।3च्) या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ||3||

(1,28।4अ) पुत्रम् अत्तु यातुधानीः स्वसारम् उत नप्त्यम्|
(1,28।4च्) अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्ताम् अराय्यः ||4||

(1,29।1अ) अभीवर्तेन मणिना येनेन्द्रो अभिववृधे|
(1,29।1च्) तेनास्मान् ब्रह्मणस् पते ‘भि राष्ट्राय वर्धय ||1||

(1,29।2अ) अभिवृत्य सपत्नान् अभि या नो अरातयः|
(1,29।2च्) अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ||2||

(1,29।3अ) अभि त्वा देवः सविताभि षोमो अवीवृधत्|
(1,29।3च्) अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ||3||

(1,29।4अ) अभीवर्तो अभिभवः सपत्नक्षयणो मणिः|
(1,29।4च्) राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ||4||

(1,29।5अ) उद् असौ सूर्यो अगाद् उद् इदं मामकं वचः|
(1,29।5च्) यथाहं शत्रुहो ‘सान्य् असपत्नः सपत्नहा ||5||

(1,29।6अ) सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः|
(1,29।6च्) यथाहम् एषां वीराणां विराजानि जनस्य च ||6||

(1,30।1अ) विश्वे देवा वसवो रक्षतेमम् उतादित्या जागृत यूयम् अस्मिन्|
(1,30।1च्) मेमं सनाभिर् उत वान्यनाभिर् मेमं प्रापत् पौरुषेयो वधो यः ||1||

(1,30।2अ) ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदम् उक्तम्|
(1,30।2च्) सर्वेभ्यो वः परि ददाम्य् एतं स्वस्त्य् एनं जरसे वहाथ ||2||

(1,30।3अ) ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्व् अप्स्व् अन्तः|
(1,30।3च्) ते कृणुत जरसम् आयुर् अस्मै शतम् अन्यान् परि वृणक्तु मृत्यून् ||3||

(1,30।4अ) येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश् च देवाः|
(1,30।4च्) येषां वः पञ्च प्रदिशो विभक्तास् तान् वो अस्मै सत्रसदः कृणोमि ||4||

(1,31।1अ) आशानाम् आशापालेभ्यश् चतुर्भ्यो अमृतेभ्यः|
(1,31।1च्) इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ||1||

(1,31।2अ) य आशानाम् आशापालाश् चत्वार स्थन देवाः|
(1,31।2च्) ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ||2||

(1,31।3अ) अस्रामस् त्वा हविषा यजाम्य् अश्लोणस् त्वा घृतेन जुहोमि|
(1,31।3च्) य आशानाम् आशापालस् तुरीयो देवः स नः सुभूतम् एह वक्षत् ||3||

(1,31।4अ) स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः|
(1,31।4च्) विश्वम् सुभूतम् सुविदत्रं नो अस्तु ज्योग् एव दृशेम सूर्यम् ||4||

(1,32।1अ) इदं जनासो विदथ महद् ब्रह्म वदिष्यति|
(1,32।1च्) न तत् पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ||1||

(1,32।2अ) अन्तरिक्ष आसां स्थाम श्रान्तसदाम् इव|
(1,32।2च्) आस्थानम् अस्य भूतस्य विदुष् टद् वेधसो न वा ||2||

(1,32।3अ) यद् रोदसी रेजमाने भूमिश् च निरतक्षतम्|
(1,32।3च्) आर्द्रं तद् अद्य सर्वदा समुद्रस्येव श्रोत्याः ||3||

(1,32।4अ) विश्वम् अन्याम् अभीवार तद् अन्यस्याम् अधि श्रितम्|
(1,32।4च्) दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ||4||

(1,33।1अ) हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्व् अग्निः|
(1,33।1च्) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ||1||

(1,33।2अ) यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम्|
(1,33।2च्) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ||2||

(1,33।3अ) यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति|
(1,33।3च्) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ||3||

(1,33।4अ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे|
(1,33।4च्) घृतश्चुतः शुचयो याः पावकास् ता न आपः शं स्योना भवन्तु ||4||

(1,34।1अ) इयं वीरुन् मधुजाता मधुना त्वा खनामसि|
(1,34।1च्) मधोर् अधि प्रजातासि सा नो मधुमतस् कृधि ||1||

(1,34।2अ) जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम्|
(1,34।2च्) ममेद् अह क्रताव् असो मम चित्तम् उपायसि ||2||

(1,34।3अ) मधुमन् मे निक्रमणं मधुमन् मे परायणम्|
(1,34।3च्) वाचा वदामि मधुमद् भूयासं मधुसंदृशः ||3||

(1,34।4अ) मधोर् अस्मि मधुतरो मदुघान् मधुमत्तरः|
(1,34।4च्) माम् इत् किल त्वं वनाः शाखां मधुमतीम् इव ||4||

(1,34।5अ) परि त्वा परितत्नुनेक्षुणागाम् अविद्विषे|
(1,34।5च्) यथा मां कमिन्य् असो यथा मन् नापगा असः ||5||

(1,35।1अ) यद् आबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः|
(1,35।1च्) तत् ते बद्नाम्य् आयुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ||1||

(1,35।2अ) नैनं रक्षांसि न पिशाचाः सहन्ते देवानाम् ओजः प्रथमजम् ह्य् एतत्|
(1,35।2च्) यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घम् आयुः ||2||

(1,35।3अ) अपां तेजो ज्योतिर् ओजो बलं च वनस्पतीनाम् उत वीर्याणि|
(1,35।3च्) इन्द्र इवेन्द्रियाण्य् अधि धारयामो अस्मिन् तद् दक्षमाणो बिभरद् धिरण्यम् ||3||

(1,35।4अ) समानां मासाम् ऋतुभिष् ट्वा वयं संवत्सरस्य पयसा पिपर्मि|
(1,35।4च्) इन्द्राग्नी विश्वे देवास् ते ‘नु मन्यन्ताम् अहृणीयमानाः ||4||

(1,1।1अ) ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः|
(1,1।1च्) वाचस् पतिर् बला तेषां तन्वो अद्य दधातु मे ||1||

(1,1।2अ) पुनर् एहि वचस् पते देवेन मनसा सह|
(1,1।2च्) वसोष् पते नि रमय मय्य् एवास्तु मयि श्रुतम् ||2||

(1,1।3अ) इहैवाभि वि तनूभे आर्त्नी इव ज्यया|
(1,1।3च्) वाचस् पतिर् नि यछतु मय्य् एवास्तु मयि श्रुतम् ||3||

(1,1।4अ) उपहूतो वाचस् पतिर् उपास्मान् वाचस्पतिर् ह्वयताम्|
(1,1।4च्) सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ||4||

(1,2।1अ) विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्|
(1,2।1च्) विद्मो ष्व् अस्य मातरं पृथिवीं भूरिवर्पसम् ||1||

(1,2।2अ) ज्याके परि णो नमाश्मानं तन्वं कृधि|
(1,2।2च्) वीढुर् वरीयो ‘रातीर् अप द्वेषांस्य् आ कृधि ||2||

(1,2।3अ) वृक्षं यद् गावः परिषस्वजाना अनुस्फुरं शरं अर्चन्त्य् ऋभुम्|
(1,2।3च्) शरुम् अस्मद् यावय दिद्युम् इन्द्र ||3||

(1,2।4अ) यथा द्यां च पृथिवीं चान्तस् तिष्ठति तेजनम्|
(1,2।4च्) एवा रोगं चास्रावं चान्तस् तिष्ठतु मुञ्ज इत् ||4||

(1,3।1अ) विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यं|
(1,3।1च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ||1||

(1,3।2अ) विद्मा शरस्य पितरं मित्रं शतवृष्ण्यं|
(1,3।2च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ||2||

(1,3।3अ) विद्मा शरस्य पितरं वरुणं शतवृष्ण्यं|
(1,3।3च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ||3||

(1,3।4अ) विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यं|
(1,3।4च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ||4||

(1,3।5अ) विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यं|
(1,3।5च्) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ||5||

(1,3।6अ) यद् आन्त्रेषु गवीन्योर् यद् वस्ताव् अधि संश्रितम्|
(1,3।6च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ||6||

(1,3।7अ) प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव|
(1,3।7च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ||7||

(1,3।8अ) विषितं ते वस्तिबिलं समुद्रस्योदधेर् इव|
(1,3।8च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ||8||

(1,3।9अ) यथेषुका परापतद् अवसृष्टाधि धन्वनः|
(1,3।9च्) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ||9||

(1,4।1अ) अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम्|
(1,4।1च्) पृञ्चतीर् मधुना पयः ||1||

(1,4।2अ) अमूर् या उप सूर्ये याभिर् वा सूर्यः सह|
(1,4।2च्) ता नो हिन्वन्त्व् अध्वरम् ||2||

(1,4।3अ) अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः|
(1,4।3च्) सिन्धुभ्यः कर्त्वं हविः ||3||

(1,4।4अ) अप्स्व् अन्तर् अमृतम् अप्सु भेषजम्|
(1,4।4च्) अपाम् उत प्रशस्तिभिर् अश्वा भवथ वाजिनो गावो भवथ वाजिनीः ||4||

(1,5।1अ) आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन|
(1,5।1च्) महे रणाय चक्षसे ||1||

(1,5।2अ) यो वः शिवतमो रसस् तस्य भाजयतेह नः|
(1,5।2च्) उशतीर् इव मातरः ||2||

(1,5।3अ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ|
(1,5।3च्) आपो जनयथा च नः ||3||

(1,5।4अ) ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम्|
(1,5।4च्) अपो याचामि भेषजम् ||4||

(1,6।1अ) शं नो देवीर् अभिष्टय आपो भवन्तु पीतये|
(1,6।1च्) शं योर् अभि स्रवन्तु नः ||1||

(1,6।2अ) अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा|
(1,6।2च्) अग्निं च विश्वशंभुवम् ||2||

(1,6।3अ) आपः पृणीत भेषजं वरूथं तन्वे मम|
(1,6।3च्) ज्योक् च सूर्यं दृशे ||3||

(1,6।4अ) शं न आपो धन्वन्याः शम् उ सन्त्व् अनूप्याः|
(1,6।4च्) शं नः खनित्रिमा आपः शम् उ याः कुम्भ आभृताः|
(1,6।4ए) शिवा नः सन्तु वार्षिकीः ||4||

(1,7।1अ) स्तुवानम् अग्न आ वह यातुधानं किमीदिनम्|
(1,7।1च्) त्वं हि देव वन्दितो हन्ता दस्योर् बभूविथ ||1||

(1,7।2अ) आज्यस्य परमेष्ठिन् जातवेदस् तनूवशिन्|
(1,7।2च्) अग्ने तौलस्य प्राशान यातुधानान् वि लापय ||2||

(1,7।3अ) वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः|
(1,7।3च्) अथेदम् अग्ने नो हविर् इन्द्रश् च प्रति हर्यतम् ||3||

(1,7।4अ) अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान्|
(1,7।4च्) ब्रवीतु सर्वो यातुमान् अयम् अस्मीत्य् एत्य ||4||

(1,7।5अ) पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः|
(1,7।5च्) त्वया सर्वे परितप्ताः पुरस्तात् त आ यन्तु प्रब्रुवाणा उपेदम् ||5||

(1,7।6अ) आ रभस्व जातवेदो ‘स्माकार्थाय जज्ञिषे|
(1,7।6च्) दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ||6||

(1,7।7अ) त्वम् अग्ने यातुधानान् उपबद्धां इहा वह|
(1,7।7च्) अथैषाम् इन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ||7||

(1,8।1अ) इदं हविर् यातुधानान् नादी फेनम् इवा वहत्|
(1,8।1च्) य इदं स्त्री पुमान् अकर् इह स स्तुवतां जनः ||1||

(1,8।2अ) अयं स्तुवान आगमद् इमं स्म प्रति हर्यत|
(1,8।2च्) बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ||2||

(1,8।3अ) यातुधानस्य सोमप जहि प्रजां नयस्व च|
(1,8।3च्) नि स्तुवानस्य पातय परम् अक्ष्य् उतावरम् ||3||

(1,8।4अ) यत्रैषाम् अग्ने जनिमानि वेत्थ गुहा सताम् अत्त्रिणां जातवेदः|
(1,8।4च्) तांस् त्वं ब्रह्मणा वावृधानो जह्य् एषां शततर्हम् अग्ने ||4||

(1,9।1अ) अस्मिन् वसु वसवो धारयन्त्व् इन्द्रः पूषा वरुणो मित्रो अग्निः|
(1,9।1च्) इमम् आदित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ||1||

(1,9।2अ) अस्य देवाः प्रदिशि ज्योतिर् अस्तु सूर्यो अग्निर् उत वा हिरण्यम्|
(1,9।2च्) सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ||2||

(1,9।3अ) येनेन्द्राय समभरः पयांस्य् उत्तमेन ब्रह्मणा जातवेदः|
(1,9।3च्) तेन त्वम् अग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्य् एनम् ||3||

(1,9।4अ) अइषां यज्ञम् उत वर्चो ददे ‘हं रायस् पोषम् उत चित्तान्य् अग्ने|
(1,9।4च्) सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ||4||

(1,10।1अ) अयं देवानाम् असुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः|
(1,10।1च्) ततस् परि ब्रह्मणा शाशदान उग्रस्य मन्योर् उद् इमं नयामि ||1||

(1,10।2अ) नमस् ते रजन् वरुणास्तु मन्यवे विश्वं ह्य् उग्र निचिकेषि द्रुग्धम्|
(1,10।2च्) सहस्रम् अन्यान् प्र सुवामि साकं शतं जीवाति शरदस् तवायम् ||2||

(1,10।3अ) यद् उवक्थानृतम् जिह्वया वृजिनं बहु|
(1,10।3च्) राज्ञस् त्वा सत्यधर्मणो मुञ्चामि वरुणाद् अहम् ||3||

(1,10।4अ) मुञ्चामि त्वा वैश्वानराद् अर्णवान् महतस् परि|
(1,10।4च्) सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ||4||

(1,11।1अ) वषट् ते पूषन्न् अस्मिन्त् सूताव् अर्यमा होता कृणोतु वेधाः|
(1,11।1च्) सिस्रतां नार्य् ऋतप्रजाता वि पर्वाणि जिहतां सूतवा उ ||1||

(1,11।2अ) चतस्रो दिवः प्रदिशश् चतस्रो भूम्या उत|
(1,11।2च्) देवा गर्भं सम् अइरयन् तं व्य् ऊर्णुवन्तु सूतवे ||2||

(1,11।3अ) सूषा व्य् ऊर्णोतु वि योनिं हापयामसि|
(1,11।3च्) श्रथया सूषणे त्वम् अव त्वं बिष्कले सृज ||3||

(1,11।4अ) नेव मांसे न पीवसि नेव मज्जस्व् आहतम्|
(1,11।4च्) अवैतु पृश्नि शेवलं शुने जराय्व् अत्तवे ‘व जरायु पद्यताम् ||4||

(1,11।5अ) वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके|
(1,11।5च्) वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ||5||

(1,11।6अ) यथा वातो यथा मनो यथा पतन्ति पक्षिणः|
(1,11।6च्) एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ||6||

(1,12।1अ) जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या|
(1,12।1च्) स नो मृढाति तन्व ऋजुगो रुजन् य एकम् ओजस् त्रेधा विचक्रमे ||1||

(1,12।2अ) अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस् त्वा हविषा विधेम।
(1,12।2च्) अङ्कान्त् समङ्कान् हविषा विधेम यो अग्रभीत् पर्वास्या ग्रभीता ||2||

(1,12।3अ) मुञ्च शीर्षक्त्या उत कास एनं परुष्परुर् आविवेशा यो अस्य।
(1,12।3च्) यो अभ्रजा वातजा यश् च शुष्मो वनस्पतीन्त् सचतां पर्वतांश् च ||3||

(1,12।4अ) शं मे परस्मै गात्राय शम् अस्त्व् अवराय मे।
(1,12।4च्) शं मे चतुर्भ्यो अङ्गेभ्यः शम् अस्तु तन्वे मम ||4||

(1,13।1अ) नमस् ते अस्तु विद्युते नमस् ते स्तनयित्नवे।
(1,13।1च्) नमस् ते अस्त्व् अश्मने येना दूढाशे अस्यसि ||1||

(1,13।2अ) नमस् ते प्रवतो नपाद् यतस् तपः समूहसि।
(1,13।2च्) मृढया नस् तनूभ्यो मयस् तोकेभ्यस् कृधि ||2||

(1,13।3अ) प्रवतो नपान् नम एवास्तु तुभ्यं नमस् ते हेतये तपुषे च कृण्मः।
(1,13।3च्) विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर् निहितासि नाभिः ||3||

(1,13।4अ) यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम्।
(1,13।4च्) सा नो मृढ विदथे गृणाना तस्यै ते नमो अस्तु देवि ||4||

(1,14।1अ) भगम् अस्या वर्च आदिष्य् अधि वृक्षाद् इव स्रजम्।
(1,14।1च्) महाबुध्न इव पर्वतो ज्योक् पितृष्व् आस्ताम् ||1||

(1,14।2अ) एषा ते राजन् कन्या वधूर् नि धूयताम् यम।
(1,14।2च्) सा मातुर् बध्यतां गृहे ‘थो भ्रातुर् अथो पितुः ||2||

(1,14।3अ) एषा ते कुलपा राजन् ताम् उ ते परि दद्मसि।
(1,14।3च्) ज्योक् पितृष्व् आसाता आ शीर्ष्णः शमोप्यात् ||3||

(1,14।4अ) असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च|
(1,14।4च्) अन्तःकोशम् इव जामयो ‘पि नह्यामि ते भगम् ||4 ||

(1,15।1अ) सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः|
(1,15।1च्) इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ||1||

(1,15।2अ) इहैव हवम् आ यात म इह संस्रावणा उतेमं वर्धयता गिरः|
(1,15।2च्) इहैतु सर्वो यः पशुर् अस्मिन् तिष्ठतु या रयिः ||2||

(1,15।3अ) ये नदीनां संस्रवन्त्य् उत्सासः सदम् अक्षिताः|
(1,15।3च्) तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ||3||

(1,15।4अ) ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च।
(1,15।4ब्) तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ||4||

(1,16।1अ) ये ‘मावास्यां रात्रिम् उदस्थुर् व्राजम् अत्त्रिणः|
(1,16।1च्) अग्निस् तुरीयो यातुहा सो अस्मभ्यम् अधि ब्रवत् ||1||

(1,16।2अ) सीसायाध्य् आह वरुणः सीसायाग्निर् उपावति|
(1,16।2च्) सीसं म इन्द्रः प्रायछत् तद् अङ्ग यातुचातनम् ||2||

(1,16।3अ) इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः|
(1,16।3च्) अनेन विश्वा ससहे या जातानि पिशाच्याः ||3||

(1,16।4अ) यदि नो गां हंसि यद्य् अश्वं यदि पूरुषम्|
(1,16।4च्) तं त्वा सीसेन विध्यामो यथा नो ‘सो अवीरहा ||4||

(1,17।1अ) अमूर् या यन्ति योषितो हिरा लोहितवाससः|
(1,17।1च्) अभ्रातर इव जामयस् तिष्ठन्तु हतवर्चसः ||1||

(1,17।2अ) तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे|
(1,17।2च्) कनिष्ठिका च तिष्ठति तिष्ठाद् इद् धमनिर् मही ||2||

(1,17।3अ) शतस्य धमनीनां सहस्रस्य हिराणाम्|
(1,17।3च्) अस्थुर् इन् मध्यमा इमाः साकम् अन्ता अरंसत ||3||

(1,17।4अ) परि वः सिकतावती धनूर् बृहत्य् अक्रमीत्|
(1,17।4च्) तिष्ठतेलयता सु कम् ||4||

(1,18।1अ) निर् लक्ष्म्यं ललाम्यं निर् अरातिं सुवामसि|
(1,18।1च्) अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ||1||

(1,18।2अ) निर् अरणिं सविता साविषक् पदोर् निर् हस्तयोर् वरुणो मित्रो अर्यमा|
(1,18।2च्) निर् अस्मभ्यम् अनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ||2||

(1,18।3अ) यत् त आत्मनि तन्वां घोरम् अस्ति यद् वा केशेषु प्रतिचक्षणे वा|
(1,18।3च्) सर्वं तद् वाचाप हन्मो वयं देवस् त्वा सविता सूदयतु ||3||

(1,18।4अ) रिश्यपदीं वृषदतीं गोषेधां विधमाम् उत|
(1,18।4च्) विलीढ्ह्यं ललाम्यं ता अस्मन् नाशयामसि ||4||

(1,19।1अ) मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन्|
(1,19।1च्) आराच् छरव्या अस्मद् विषूचीर् इन्द्र पातय ||1||

(1,19।2अ) विष्वञ्चो अस्मच् छरवः पतन्तु ये अस्ता ये चास्याः|
(1,19।2च्) दैवीर् मनुष्येसवो ममामित्रान् वि विध्यत ||2||

(1,19।3अ) यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मां अभिदासति|
(1,19।3च्) रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ||3||

(1,19।4अ) यः सपत्नो यो ‘सपत्नो यश् च द्विषन् छपाति नः|
(1,19।4च्) देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ||4||

(1,20।1अ) अदारसृद् भवतु देव सोमास्मिन् यज्ञे मरुतो मृढता नः|
(1,20।1च्) मा नो विदद् अभिभा मो अशस्तिर् मा नो विदद् वृजिना द्वेष्या या ||1||

(1,20।2अ) यो अद्य सेन्यो वधो ‘घायूनाम् उदीरते|
(1,20।2च्) युवं तं मित्रावरुणाव् अस्मद् यावयतं परि ||2||

(1,20।3अ) इतश् च यद् अमुतश् च यद् वधं वरुण यावय|
(1,20।3च्) वि महच् छर्म यछ वरीयो यावया वधम् ||3||

(1,20।4अ) शास इत्था महां अस्य् अमित्रसाहो अस्तृतः|
(1,20।4च्) न यस्य हन्यते सखा न जीयते कदा चन ||4||

(1,21।1अ) स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी|
(1,21।1च्) वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ||1||

(1,21।2अ) वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः|
(1,21।2च्) अधमं गमया तमो यो अस्मां अभिदासति ||2||

(1,21।3अ) वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज|
(1,21।3च्) वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ||3||

(1,21।4अ) अपेन्द्र द्विषतो मनो ‘प जिज्यासतो वधम्|
(1,21।4च्) वि महच् छर्म यछ वरीयो यावया वधम् ||4||

(1,22।1अ) अनु सूर्यम् उद् अयतां हृद्द्योतो हरिमा च ते|
(1,22।1च्) गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ||1||

(1,22।2अ) परि त्वा रोहितैर् वर्णैर् दीर्घायुत्वाय दध्मसि|
(1,22।2च्) यथायम् अरपा असद् अथो अहरितो भुवत् ||2||

(1,22।3अ) या रोहिणीर् देवत्या गावो या उत रोहिणीः|
(1,22।3च्) रूपंरूपं वयोवयस् ताभिष् ट्वा परि दध्मसि ||3||

(1,22।4अ) शुकेषु ते हरिमाणं रोपणाकासु दध्मसि|
(1,22।4च्) अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ||4||

(1,23।1अ) नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च|
(1,23।1च्) इदं रजनि रजय किलासं पलितं च यत् ||1||

(1,23।2अ) किलासं च पलितं च निर् इतो नाशया पृषत्|
(1,23।2च्) आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ||2||

(1,23।3अ) असितं ते प्रलयनम् आस्थानम् असितं तव|
(1,23।3च्) असिक्नी अस्य् ओषधे निर् इतो नाशया पृषत् ||3||

(1,23।4अ) अस्थिजस्य किलासस्य तनूजस्य च यत् त्वचि|
(1,23।4च्) दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतम् अनीनशम् ||4||

(1,24।1अ) सुपर्णो जातः प्रथमस् तस्य त्वं पित्तम् आसिथ|
(1,24।1च्) तद् आसुरी युधा जिता रूपं चक्रे वनस्पतीन् ||1||

(1,24।2अ) आसुरी चक्रे प्रथमेदं किलासभेषजम् इदं किलासनाशनम्|
(1,24।2च्) अनीनशत् किलासं सरूपाम् अकरत् त्वचम् ||2||

(1,24।3अ) सरूपा नाम ते माता सरूपो नाम ते पिता|
(1,24।3च्) सरूपकृत् त्वम् ओषधे सा सरूपम् इदं कृधि ||3||

(1,24।4अ) श्यामा सरूपंकरणी पृथिव्या अध्य् उद्भृता|
(1,24।4च्) इदम् ऊ षु प्र साधय पुना रूपाणि कल्पय ||4||

(1,25।1अ) यद् अग्निर् आपो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि|
(1,25।1च्) तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ||1||

(1,25।2अ) यद्य् अर्चिर् यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम्|
(1,25।2च्) ह्रूढुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ||2||

(1,25।3अ) यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः|
(1,25।3च्) ह्रूढुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ||3||

(1,25।4अ) नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि|
(1,25।4च्) यो अन्येद्युर् उभयद्युर् अभ्येति तृतीयकाय नमो अस्तु तक्मने ||4||

(1,26।1अ) आरे ‘साव् अस्मद् अस्तु हेतिर् देवासो असत्|
(1,26।1च्) आरे अश्मा यम् अस्यथ ||1||

(1,26।2अ) सखासाव् अस्मभ्यम् अस्तु रातिः सखेन्द्रो भगः|
(1,26।2च्) सविता चित्रराधाः ||2||

(1,26।3अ) यूयम् नः प्रवतो नपान् मरुतः सूर्यत्वचसः|
(1,26।3च्) शर्म यछथ सप्रथाः ||3||

(1,26।4अ) सुषूदत मृढत मृढया नस् तनूभ्यो|
(1,26।4च्) मयस् तोकेभ्यस् कृधि ||4||

(1,27।1अ) अमूः पारे पृदाक्वस् त्रिषप्ता निर्जरायवः|
(1,27।1च्) तासाम् जरायुभिर् वयम् अक्ष्याव् अपि व्ययामस्य् अघायोः परिपन्थिनः ||1||

(1,27।2अ) विषूच्य् एतु कृन्तती पिनाकम् इव बिभ्रती|
(1,27।2च्) विष्वक् पुनर्भुवा मनो ‘समृद्धा अघायवः ||2||

(1,27।3अ) न बहवः सम् अशकन् नार्भका अभि दाधृषुः|
(1,27।3च्) वेणोर् अद्गा इवाभितो ‘समृद्धा अघायवः ||3||

(1,27।4अ) प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान्|
(1,27।4च्) इन्द्रान्य् एतु प्रथमाजीतामुषिता पुरः ||4||

(1,28।1अ) उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः|
(1,28।1च्) दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ||1||

(1,28।2अ) प्रति दह यातुधानान् प्रति देव किमीदिनः|
(1,28।2च्) प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ||2||

(1,28।3अ) या शशाप शपनेन याघं मूरम् आदधे|
(1,28।3च्) या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ||3||

(1,28।4अ) पुत्रम् अत्तु यातुधानीः स्वसारम् उत नप्त्यम्|
(1,28।4च्) अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्ताम् अराय्यः ||4||

(1,29।1अ) अभीवर्तेन मणिना येनेन्द्रो अभिववृधे|
(1,29।1च्) तेनास्मान् ब्रह्मणस् पते ‘भि राष्ट्राय वर्धय ||1||

(1,29।2अ) अभिवृत्य सपत्नान् अभि या नो अरातयः|
(1,29।2च्) अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ||2||

(1,29।3अ) अभि त्वा देवः सविताभि षोमो अवीवृधत्|
(1,29।3च्) अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ||3||

(1,29।4अ) अभीवर्तो अभिभवः सपत्नक्षयणो मणिः|
(1,29।4च्) राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ||4||

(1,29।5अ) उद् असौ सूर्यो अगाद् उद् इदं मामकं वचः|
(1,29।5च्) यथाहं शत्रुहो ‘सान्य् असपत्नः सपत्नहा ||5||

(1,29।6अ) सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः|
(1,29।6च्) यथाहम् एषां वीराणां विराजानि जनस्य च ||6||

(1,30।1अ) विश्वे देवा वसवो रक्षतेमम् उतादित्या जागृत यूयम् अस्मिन्|
(1,30।1च्) मेमं सनाभिर् उत वान्यनाभिर् मेमं प्रापत् पौरुषेयो वधो यः ||1||

(1,30।2अ) ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदम् उक्तम्|
(1,30।2च्) सर्वेभ्यो वः परि ददाम्य् एतं स्वस्त्य् एनं जरसे वहाथ ||2||

(1,30।3अ) ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्व् अप्स्व् अन्तः|
(1,30।3च्) ते कृणुत जरसम् आयुर् अस्मै शतम् अन्यान् परि वृणक्तु मृत्यून् ||3||

(1,30।4अ) येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश् च देवाः|
(1,30।4च्) येषां वः पञ्च प्रदिशो विभक्तास् तान् वो अस्मै सत्रसदः कृणोमि ||4||

(1,31।1अ) आशानाम् आशापालेभ्यश् चतुर्भ्यो अमृतेभ्यः|
(1,31।1च्) इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ||1||

(1,31।2अ) य आशानाम् आशापालाश् चत्वार स्थन देवाः|
(1,31।2च्) ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ||2||

(1,31।3अ) अस्रामस् त्वा हविषा यजाम्य् अश्लोणस् त्वा घृतेन जुहोमि|
(1,31।3च्) य आशानाम् आशापालस् तुरीयो देवः स नः सुभूतम् एह वक्षत् ||3||

(1,31।4अ) स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः|
(1,31।4च्) विश्वम् सुभूतम् सुविदत्रं नो अस्तु ज्योग् एव दृशेम सूर्यम् ||4||

(1,32।1अ) इदं जनासो विदथ महद् ब्रह्म वदिष्यति|
(1,32।1च्) न तत् पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ||1||

(1,32।2अ) अन्तरिक्ष आसां स्थाम श्रान्तसदाम् इव|
(1,32।2च्) आस्थानम् अस्य भूतस्य विदुष् टद् वेधसो न वा ||2||

(1,32।3अ) यद् रोदसी रेजमाने भूमिश् च निरतक्षतम्|
(1,32।3च्) आर्द्रं तद् अद्य सर्वदा समुद्रस्येव श्रोत्याः ||3||

(1,32।4अ) विश्वम् अन्याम् अभीवार तद् अन्यस्याम् अधि श्रितम्|
(1,32।4च्) दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ||4||

(1,33।1अ) हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्व् अग्निः|
(1,33।1च्) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ||1||

(1,33।2अ) यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम्|
(1,33।2च्) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ||2||

(1,33।3अ) यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति|
(1,33।3च्) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ||3||

(1,33।4अ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे|
(1,33।4च्) घृतश्चुतः शुचयो याः पावकास् ता न आपः शं स्योना भवन्तु ||4||

(1,34।1अ) इयं वीरुन् मधुजाता मधुना त्वा खनामसि|
(1,34।1च्) मधोर् अधि प्रजातासि सा नो मधुमतस् कृधि ||1||

(1,34।2अ) जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम्|
(1,34।2च्) ममेद् अह क्रताव् असो मम चित्तम् उपायसि ||2||

(1,34।3अ) मधुमन् मे निक्रमणं मधुमन् मे परायणम्|
(1,34।3च्) वाचा वदामि मधुमद् भूयासं मधुसंदृशः ||3||

(1,34।4अ) मधोर् अस्मि मधुतरो मदुघान् मधुमत्तरः|
(1,34।4च्) माम् इत् किल त्वं वनाः शाखां मधुमतीम् इव ||4||

(1,34।5अ) परि त्वा परितत्नुनेक्षुणागाम् अविद्विषे|
(1,34।5च्) यथा मां कमिन्य् असो यथा मन् नापगा असः ||5||

(1,35।1अ) यद् आबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः|
(1,35।1च्) तत् ते बद्नाम्य् आयुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ||1||

(1,35।2अ) नैनं रक्षांसि न पिशाचाः सहन्ते देवानाम् ओजः प्रथमजम् ह्य् एतत्|
(1,35।2च्) यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घम् आयुः ||2||

(1,35।3अ) अपां तेजो ज्योतिर् ओजो बलं च वनस्पतीनाम् उत वीर्याणि|
(1,35।3च्) इन्द्र इवेन्द्रियाण्य् अधि धारयामो अस्मिन् तद् दक्षमाणो बिभरद् धिरण्यम् ||3||

(1,35।4अ) समानां मासाम् ऋतुभिष् ट्वा वयं संवत्सरस्य पयसा पिपर्मि|
(1,35।4च्) इन्द्राग्नी विश्वे देवास् ते ‘नु मन्यन्ताम् अहृणीयमानाः ||4||

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>